राष्ट्रमण्डल-टेबल-टेनिस-चैम्पियनशिपस्पर्धाया: आधिकारिक-शुभङ्करः ‘मयूरः’ इत्यस्य अभवत् अनावरणम्
नवदिल्ली, १४ जुलाईमासः (हि.स.)। दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता मङ्गलवासरे राष्ट्रमण्डल-टेबल-टेनिस-चैम्पियनशिपस्पर्धाया: आधिकारिक-शुभङ्करस्य ‘मयूरः’ इत्यस्य अनावरणम् अकरोत्। सा उक्तवती यत् राष्ट्रमण्डल-टेबल-टेनिस-चैम्पियनशिप २७ जुलाईमासात्
दिल्ली की मुख्यमंत्री रेखा गुप्ता मंगलवार को राष्ट्रमंडल टेबल टेनिस चैंपियनशिप के आधिकारिक शुभंकर ‘मयूर’ का अनावरण करते हुए साथ में दिल्ली के खेल मंत्री आशीष सूद


राष्ट्रमंडल टेबल टेनिस चैंपियनशिप का आधिकारिक शुभंकर ‘मयूर’


दिल्ली की मुख्यमंत्री रेखा गुप्ता मंगलवार को राष्ट्रमंडल टेबल टेनिस चैंपियनशिप के आधिकारिक शुभंकर ‘मयूर’ का अनावरण करते हुए साथ में दिल्ली के खेल मंत्री आशीष सूद


नवदिल्ली, १४ जुलाईमासः (हि.स.)। दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता मङ्गलवासरे राष्ट्रमण्डल-टेबल-टेनिस-चैम्पियनशिपस्पर्धाया: आधिकारिक-शुभङ्करस्य ‘मयूरः’ इत्यस्य अनावरणम् अकरोत्। सा उक्तवती यत् राष्ट्रमण्डल-टेबल-टेनिस-चैम्पियनशिप २७ जुलाईमासात् २ अगस्तमास-पर्यन्तं नवदिल्लीस्थिते त्यागराज-क्रीडाङ्गणे आयोज्यते। अस्मिन् पञ्चविंशति-राष्ट्रमण्डल-देशानां श्रेष्ठाः क्रीडकाः स्वप्रतिभां प्रदर्शयिष्यन्ति।

नवदिल्लीस्थिते ललित-आतिथ्यगृहे आयोजिते अस्मिन् समारोहे दिल्ली-राज्यस्य क्रीडामन्त्री आशीष-सूदः, राष्ट्रमण्डल-टेबल-टेनिस-सङ्घस्य अध्यक्षः विवेक-कोहली, शिक्षाविभागस्य अतिरिक्त-निदेशकः नितिन-जिन्दलः, टेबल-टेनिस-फेडरेशन-ऑफ-इण्डिया इत्यस्य पदाधिकारीणः, क्रीडकाः, प्रशिक्षकाः च उपस्थिताः आसन्।

क्रीडामन्त्री आशीष-सूदः उक्तवान् यत् मुख्यमन्त्रिण्याः नेतृत्वे दिल्ली-सर्वकारः क्रीडाक्षेत्रं नूतन-उच्चतां नेतुं प्रतिबद्धः अस्ति। सः अवदत् यत् अद्य केवलं ‘मयूरः’ इति आधिकारिक-शुभङ्करस्य अनावरणस्य अवसरः न, अपितु दिल्ली-राज्यस्य क्रीडा-भविष्यस्य नूतन-दृष्टेः उद्घाटनस्य अपि प्रतीकः अस्ति। सः उक्तवान् यत् दिल्ली केवलं भारतस्य राजधानी न, अपितु देशस्य ‘क्रीडा-राजधानी’ रूपेण तथा भविष्ये वैश्विक-क्रीडा-केन्द्ररूपेण स्वपरिचयं स्थापयितुं अग्रे सरति।

सूदः अवदत् यत् २७ जुलाईमासात् २ अगस्तमास-पर्यन्तं त्यागराज-क्रीडाङ्गणे आयोज्यमानायां अस्यां चैम्पियनशिप-स्पर्धायां पञ्चविंशति-राष्ट्रमण्डल-देशानां श्रेष्ठाः क्रीडकाः स्वप्रतिभां प्रदर्शयिष्यन्ति। अस्मिन् काले विश्वस्य क्रीडाप्रेमिणां तथा अन्ताराष्ट्रिय-क्रीडा-समुदायस्य दृष्टिः दिल्ली-नगरस्य उपरि भविष्यति। सः उक्तवान् यत् एषा स्पर्धा दिल्ली-राज्यस्य अन्तिमं लक्ष्यं न, अपितु बृहत् यात्रायाः आरम्भः अस्ति।

क्रीडामन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शने तथा मुख्यमन्त्रिण्याः रेखा-गुप्तायाः नेतृत्वे दिल्ली-सर्वकारः भविष्यस्य राष्ट्रमण्डल-क्रीडाः, एशियाई-क्रीडाः, विश्व-चैम्पियन-शिपस्पर्धा तथा अन्यानि प्रमुखानि अन्ताराष्ट्रिय-क्रीडा-आयोजनानि आयोजयितुं राजधानीं सज्जां करोति। सः उक्तवान् यत् सर्वकारस्य उद्देश्यं केवलं क्रीडा-स्पर्धानाम् आयोजनं न, अपितु सुदृढस्य विश्वस्तरीय-क्रीडा-पारिस्थितिक-तन्त्रस्य निर्माणम् अपि अस्ति।

सः अवदत् यत् दिल्ली-सर्वकारः तादृशं वातावरणं निर्माति, यत्र कस्यापि परिवारस्य बालकः यदि क्रीडकः भवितुम् इच्छति, तर्हि तस्मै विश्वस्तरीया क्रीडावसंरचना, अन्ताराष्ट्रिय-स्तरस्य प्रशिक्षणम्, क्रीडा-विज्ञानस्य सुविधाः तथा उत्तमानि अभ्यास-साधनानि उपलब्धानि भविष्यन्ति। सर्वकारः क्रीडकाणां स्वप्न-साकारार्थं सर्वावश्यक-सहयोगं प्रदातुं कटिबद्धः अस्ति।

आशीष-सूदः अवदत् यत् दिल्ली-सर्वकारः क्रीडाक्षेत्रस्य संवर्धनार्थं पञ्च ‘सेण्टर्-ऑफ्-एक्सीलेन्स्’ संस्थाः विकसितुं गच्छति। तासु जलतरणम्, एथलेटिक्स, मल्लयुद्धम् तथा टेबल-टेनिस इत्यादयः क्रीडाविशेषाः समाविष्टाः भविष्यन्ति। एतानि केन्द्राणि केवलं प्रशिक्षण-केन्द्राणि न भविष्यन्ति, अपितु दिल्ली-राज्यस्य भावि-क्रीडा-प्रतिभानां निर्माणाय सुदृढ-व्यवस्थारूपेण कार्यं करिष्यन्ति। सः अवदत् यत् अद्य दिल्ली राष्ट्रमण्डल-टेबल-टेनिस-चैम्पियनशिपस्पर्धाया: आयोजनं करोति, भविष्ये च एतानि केन्द्राणि तादृशान् क्रीडकान् निर्मास्यन्ति, ये राष्ट्रमण्डल-क्रीडासु, एशियाई-क्रीडासु, ओलम्पिक-क्रीडासु तथा विश्व-चैम्पियनशिप-स्पर्धाया: भारतस्य प्रतिनिधित्वं कृत्वा त्रिरङ्गस्य गौरवं वर्धयिष्यन्ति।

सूदः अवदत् यत् विश्वस्तरीय-क्रीडा-आयोजनानां आयोजनं तथा विश्वस्तरीय-क्रीडकानां निर्माणम् इति दिल्ली-सर्वकारस्य द्विविध-रणनीतेः अङ्गम् अस्ति। सर्वकारस्य लक्ष्यं केवलं पदक-प्राप्तिः न, अपितु तादृशान् विजेतॄन् निर्मातुं यैः अग्रिमवंश: प्रेरित: भविष्यति। सः अवदत् यत् चैम्पियनशिपस्य आधिकारिक-शुभङ्करः ‘मयूरः’ केवलं प्रतीकं न, अपितु आत्मविश्वासस्य, उत्कृष्टतायाः, दृढ-सङ्कल्पस्य, क्रीडा-भावनायाः तथा भारतीय-संस्कृतेः प्रतिनिधिः अस्ति। भारतीय-परम्परायां मयूरः गौरवस्य, ऊर्जायाः, सौन्दर्यस्य च प्रतीकः मन्यते। अयं शुभङ्करः विश्वस्य विभिन्न-देशेभ्यः आगच्छतां क्रीडकाणां स्वागतं करिष्यति तथा युवभ्यः एतत् सन्देशं दास्यति यत् भारतीय-मूल्यानि वैश्विक-उत्कृष्टतया सह अग्रे वर्धितुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan