Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ जुलाईमासः (हि.स.)। भारतेन अन्ताराष्ट्रिय-समुदायस्य समीपे आह्वानं कृतं यत्, सः पाकिस्तान-अधिकृत-जम्मू-कश्मीर-प्रदेशे जनतां प्रति क्रियमाणानां घोर-दुर्व्यवहाराणां कुकृत्यानां च संज्ञानं गृह्णीयात् तथा च एतेषां घटनानां कृते पाकिस्तानदेशं उत्तरदायिनं मन्येत्।
भारतदेश: उक्तवान् यत्, पाकिस्तान-अधिकृत-जम्मू-कश्मीर-प्रदेशस्य गम्भीराः परिस्थितयः पाकिस्तानस्य दीर्घकालीन-दमननीतिं स्थानीय-जनानां अधिकार-उपेक्षां च प्रकाशयन्ति। एतदेव स्पष्टं दृश्यते यत् पाकिस्तानः जनतायाः न्यायोचितान् अभ्यर्थनान् श्रोतुं न इच्छन्, तान् बलप्रयोगेन दमनं कर्तुं प्रयतते।
विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः मङ्गलवासरे पत्रकार-वार्तायाम् उक्तवान् यत्, पाकिस्तान-अधिकृत-जम्मू-कश्मीर-प्रदेशे प्रवर्तमानानि विरोध-प्रदर्शनानि पाकिस्तानदेशस्य स्वस्य अवैध-बलात्कृत-अधिगृहीतेषु क्षेत्रेषु दशकेभ्यः प्रवर्तमानस्य शोषणस्य, मौलिक-अधिकार-हननस्य, प्रशासनिक-उत्पीडनस्य च परिणामः सन्ति।
प्रवक्ता उक्तवान्— “वयम् आशास्महे यत् अन्ताराष्ट्रिय-समुदायः एतेषां घोर-दुर्व्यवहाराणां कुकृत्यानां च कृते पाकिस्तानं पूर्णतया उत्तरदायिनं मन्येत।”
तेन उक्तं यत् स्थानीय-जनतायाः न्यायोचित-सूचनानां समाधानं कर्तुं विफलं पाकिस्तानी-प्रशासनम् अत्यधिक-आरक्षक-क्रौर्यस्य आश्रयं गृहीतवान्। अस्मिन् असहाय-स्त्रीणां बालकानां च विरुद्धं कृता कार्यवाही, भोजन-औषध-प्रभृतीनां अत्यावश्यक-वस्तूनां अवरोधः, अन्तर्जाल-सेवायाः पूर्ण-निरोधः तथा निःशस्त्र-नागरिकाणां विरुद्धं घातक-बलस्य प्रयोगश्च अन्तर्भवति। एतेषां कारणानां परिणामस्वरूपं अनेके दुःखद-मृत्यवः अभवन्।
Hindusthan Samachar / Divya Ranjan