Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ जुलाईमासः (हि.स.)। कारागारे निरुद्धस्य कुख्यात-अपराधिनः लॉरेन्स-बिश्नोई तथा तस्य सहयोगिनः गोल्डी-बरार इत्येतयोः विरुद्धम् अमेरिकी-विधि-प्रवर्तन-अभिकरणैः कृतायाः कार्यवाह्याः विषये विदेश-मन्त्रालयेन उक्तं यत्, भारतम् आतङ्कवादेन सह अन्ताराष्ट्रिय-सङ्गठित-अपराधस्य प्रतिरोधे अमेरिका-कनाडादेशाभ्यां सह सहयोगाय दृढसंकल्पितम् अस्ति। अस्माकं प्रवर्तन-अभिकरणानि गतानां बहूनां वर्षाणां कालात् परस्परं सहकार्यं कुर्वन्ति, एषः सहयोगश्च निरन्तरं अधिकः सुदृढः च भवति।
विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः साप्ताहिक-पत्रकार-वार्तायां सोमवासरे उक्तवान् यत्, वयं अमेरिकी-न्याय-विभागेन बहुषु देशेषु सक्रियाणां अन्ताराष्ट्रिय-सङ्घटित-अपराध-जालानां विरुद्धं प्रस्तुतानाम् अभियोगानां प्रवर्तन-कार्यवाहीनां च घोषणाः अवलोकितवन्तः। भारतं निरन्तरम् एतदेव मन्यते यत् अन्ताराष्ट्रिय-सङ्घटित-अपराधः, आतङ्कवादः, मादक-द्रव्य-निर्यातं, मानव-निर्यातं, अवैध-शस्त्र-निर्यातं तथा तत्सम्बद्धानि अपराध-जालानि अस्माकं समाजानां कृते गम्भीरं संकटम् सन्ति।
तेन उक्तं यत् भारत-अमेरिकादेशयोः मध्ये आतङ्कवादस्य तथा अन्ताराष्ट्रिय-सङ्गठित-अपराधस्य प्रतिरोधे सहयोगः निरन्तरं सुदृढः, प्रभावी, वर्धमानश्च अस्ति। भारतस्य अमेरिकादेशस्य च प्रवर्तन-अभिकरणानि बहूनि वर्षाणि सह मिलित्वा कार्यं कुर्वन्ति, एषः सहयोगश्च निरन्तरं अधिकः प्रगाढः सुदृढश्च भवति।
कनाडादेशस्य रॉयल-कैनेडियन-माउण्टेड-आरक्षकस्य उपयुक्त-अधिकाऱिणः टिप्पण्यः विषये सः उक्तवान् यत् वयं तासां टिप्पणीनां संज्ञानं गृहीतवन्तः। एताः टिप्पण्यः अद्यतन-प्रकाशितेन अमेरिकी-अभियोगपत्रेण सह अनुरूपाः सन्ति। तासु लॉरेन्स-बिश्नोई-सङ्गठित-अपराध-समूहस्य सदस्याः उत्तरदायिनः निरूपिताः सन्ति। भारतं घनिष्ठेन विधि-प्रवर्तन-सुरक्षा-सहयोगेन स्वसहयोगिभिः सह मिलित्वा आतङ्कवादस्य अन्ताराष्ट्रिय-सङ्गठित-अपराधस्य च प्रतिरोधाय कार्यं कर्तुं प्रतिबद्धम् अस्ति।
उल्लेखनीयं यत् अमेरिका जुलाईमासस्य आदौ ऑपरेशन हार्ड बॉल इति अभियानस्य अन्तर्गतं लॉरेन्स-बिश्नोई तथा तस्य सहयोगिनां विरुद्धं कार्यवाहीम् अकरोत्। अमेरिकी-न्याय-विभागस्य अभियोगपत्रे तेषां विरुद्धं हत्या, बलात् धनापहरणम्, मादक-द्रव्य-तस्करी, तथा २०२३ तमे वर्षे हरदीप-सिंह-निज्जरस्य हत्यायाः षड्यन्त्रे सहभागिता इत्यादयः गम्भीराः अभियोगाः आरोपिताः सन्ति।
Hindusthan Samachar / Divya Ranjan