भोपालनगरे अद्य प्राप्स्यते अत्याधुनिकायाः 'अन्तरिक्षान्वेषणदीर्घायाः' उपहारः
- केन्द्रियमन्त्री शेखावतः मुख्यमन्त्री मोहनयादवः च करिष्यतः लोकार्पणम् भोपालम्, 14 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य राजधान्याः भोपालनगरस्य कृते अत्याधुनिकायाः ''अन्तरिक्षान्वेषणदीर्घायाः'' उपहारः प्राप्तुं गच्छति। केन्द्रियसंस्कृतिपर्यटनमन्त्री
कार्यक्रम का आमंत्रण


- केन्द्रियमन्त्री शेखावतः मुख्यमन्त्री मोहनयादवः च करिष्यतः लोकार्पणम्

भोपालम्, 14 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य राजधान्याः भोपालनगरस्य कृते अत्याधुनिकायाः 'अन्तरिक्षान्वेषणदीर्घायाः' उपहारः प्राप्तुं गच्छति। केन्द्रियसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहः शेखावतः मुख्यमन्त्री डॉ. मोहनयादवः च अद्य मङ्गलवासरे मध्याह्ने 5:30 वादने भोपालनगरस्य आञ्चलिकविज्ञानकेन्द्रे विकसितायाः अस्याः 'दीर्घायाः' लोकार्पणं करिष्यतः।

जनसम्पर्काधिकारी अरुण-शर्मा-महोदयः अकथयत् यत् अस्मिन् अवसरे भारतसर्वकारस्य, मध्यप्रदेशशासनस्य, राष्ट्रियविज्ञानसंग्रहालयपरिषदः, जनपदप्रशासनस्य भोपालनगरस्य, विविधानां वैज्ञानिकानां शैक्षणिकसंस्थानानां च वरिष्ठाः अधिकारिणः गणमान्याः नागरिकाः च उपस्थिताः भविष्यन्ति।

सः अकथयत् यत् राष्ट्रियविज्ञानसंग्रहालयपरिषदः (संस्कृतिमन्त्रालयस्य, भारतसर्वकारस्य) मात्रकस्य आञ्चलिकविज्ञानकेन्द्रेण, भोपालनगरेण च विकसिता इयम् अत्याधुनिका दीर्घा विज्ञानस्य लोकप्रियकरणस्य, वैज्ञानिकदृष्टिकोणस्य प्रसारस्य, अनुभवात्मकविज्ञानशिक्षायाः प्रोत्साहनस्य च दिशि एकः महत्त्वपूर्णः उपक्रमः अस्ति। अस्याः विकासः नेहरू-साइंस्-सेण्टर्, मुम्बई इत्यस्य तकनीकीमार्गदर्शनेन जनपदप्रशासनस्य भोपालनगरस्य सहयोगेन च कृतः।

जनसम्पर्काधिकारिणः अनुसारं, दीर्घायाम् आधुनिकाभिः डिजिटलतकनीकाभिः, इण्टरैक्टिव्-प्रदर्शैः, वैज्ञानिकाभिः प्रस्तुतिभिः च आगन्तुकाः ब्रह्माण्डेन, आधुनिकेन ब्रह्माण्डविज्ञानेन, मानवीयेन अन्तरिक्षान्वेषणेन, भारतस्य गौरवशालिन्या अन्तरिक्षयात्रया च परिचिताः कारिष्यन्ते। अस्यां भारतीयज्ञानपरम्परायाः नासदीयसूक्तात् शून्यस्य अवधारणायाः च आरभ्य आर्यभट्ट-चन्द्रयान-1-मङ्गलयान-चन्द्रयान-3-गगनयानादीनां भारतीयाणाम् अन्तरिक्षकार्यक्रमाणां उपलब्धयः आकर्षकेन वैज्ञानिकेन च प्रकारेण प्रदर्शिताः सन्ति।

सः अकथयत् यत् दीर्घायां अन्ताराष्ट्रियस्य अन्तरिक्षस्थानकस्य (आईएसएस्) अनुभवः, स्पेस्-वॉक्, स्पेस्-फ्लाइट्-सिम्युलेटर्, चन्द्र-मङ्गलग्रहयोः त्रि-आयामिकानां सतहानां अवलोकनम्, रॉकेट्-विज्ञानम्, कक्षीययान्त्रिकी इत्यादयः अनेकाः सहभागितापूर्णाः प्रदर्शाः विकसिताः सन्ति, ये आगन्तुकेभ्यः अन्तरिक्षविज्ञानं प्रत्यक्षरूपेण अवगन्तुम् अनुभवितुं च अवसरं प्रदास्यन्ति। इयम् अत्याधुनिका दीर्घा विद्यार्थिनां, शिक्षकाणां, शोधार्थिनां, विज्ञानप्रेमिणां, सामान्यनागरिकाणां च मध्ये विज्ञानस्य, प्रौद्योगिक्याः, अभियान्त्रिक्याः, गणितस्य च प्रति रुचिं विकासयन्ती अनुसन्धानं, नवाचारं, वैज्ञानिकं चिन्तनं च प्रोत्साहयिष्यति। तथैव मध्यप्रदेशे विज्ञानाधारितं पर्यटनं, विज्ञानसंचारं, अन्तरिक्षप्रौद्योगिक्याधारितं नवाचारपारितन्त्रं च सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

---------------

Hindusthan Samachar / अंशु गुप्ता