भारत-टेक्स-२०२६ इत्यस्मिन् आरभ्यमाणे महाधिवेशने मध्यप्रदेशस्य मुख्यमन्त्री निवेशकैः सह संवादं करिष्यति
भोपालनगरम्, १४ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य आरभ्यमाणे नवदेहल्यां भारतमण्डपे आयोजिते चतुर्दिवसीये भारत-टेक्स -२०२६ महाधिवेशने देश-विदेशयोः प्रमुखैः टेक्सटाइल-निवेशकैः, उद्योग-प्रतिनिधिभिः तथा वैश्विक-ब्राण्ड-प्रति
सीएम मोहन यादव


भोपालनगरम्, १४ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य आरभ्यमाणे नवदेहल्यां भारतमण्डपे आयोजिते चतुर्दिवसीये भारत-टेक्स -२०२६ महाधिवेशने देश-विदेशयोः प्रमुखैः टेक्सटाइल-निवेशकैः, उद्योग-प्रतिनिधिभिः तथा वैश्विक-ब्राण्ड-प्रतिनिधिभिः सह संवादं कृत्वा मध्यप्रदेशे निवेशस्य नवीनावसरान् प्रवर्धयिष्यति।

जनसम्पर्क-अधिकारिणी बबीतामिश्रा-इत्यया उक्तं यत् भारत-टेक्स-२०२६ इत्यस्मिन् एकल-उद्योग-सभाभिः, गोलमेज-चर्चाभिः, सन्धि-ज्ञापन-हस्ताक्षरैः तथा निवेशक-संवादैः राज्ये टेक्सटाइल-गार्मेण्ट्-पादत्राण-उद्योगेषु नवीन-निवेशम् आकर्षयितुं प्रयत्नः भविष्यति। अस्मिन् महाधिवेशने मध्यप्रदेशस्य विशेष-प्रदर्शनमण्डपः राज्यस्य उद्योगहितैषिणीः नीतयः, आधुनिकाम् औद्योगिक-अधोसंरचनाम्, कौशल-विकास-कार्यक्रमान्, पीएम-मित्र-पार्कम् तथा टेक्सटाइल-उद्योगस्य सम्पूर्णां औद्योगिक-शृङ्खलां वैश्विक-उद्योगजगतः पुरतः प्रभावकरूपेण प्रदर्शयिष्यति।

तया उक्तं यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य देश-विदेशयोः प्रमुखाभिः टेक्सटाइल-गार्मेण्ट्-निर्माणीभिः सह प्रस्तावितासु एकल-सभासु नवीन-निवेशः, उत्पादन-क्षमता-विस्तारः, निर्यात-वृद्धिः, रोजगार-सृजनम् तथा प्राविधिक-सहयोगः इत्यादिषु विषयेषु विस्तृत-चर्चा भविष्यति। अस्मिन् अवसरे केन्द्रीय-वस्त्रमन्त्री गिरिराजसिंहः अपि उपस्थितः भविष्यति।

जनसम्पर्क-अधिकारिण्याः अनुसारम् निवेश-संवर्धनम्, कौशल-विकासः, निर्यात-प्रोत्साहनम् तथा औद्योगिक-सहयोगस्य उन्नयनार्थं अनेकानि महत्त्वपूर्णानि सन्धि-ज्ञापनानि हस्ताक्षरितानि भविष्यन्ति। तदतिरिक्तम् अनेकाभिः राष्ट्रीय-अन्ताराष्ट्रिय-निर्माणीभिः जनवरी २०२७ मासे मध्यप्रदेशे आयोज्यमानायां ग्लोबल-इन्वेस्टर्स-समिट् इत्यस्यां सहभागितां तथा निवेशे स्वीयां रुचिम् अपि व्यक्तुं सम्भावना वर्तते।

तया उक्तं यत् भारत-टेक्स-२०२६ इत्यस्मिन् विशेषा गोलमेज-चर्चा अपि मध्यप्रदेशस्य कृते महत्त्वपूर्णा भविष्यति, यस्यां टेक्सटाइल-गार्मेण्ट्-उद्योगयोः सम्बद्धाः शताधिकाः उद्योगपतयः, निवेशकाः तथा उद्योग-सङ्घटनानां प्रतिनिधयः सहभागीभविष्यन्ति। अस्यां चर्चायां निर्यात-संवर्धनम्, वैश्विक-स्पर्धाक्षमता, सतत-विनिर्माणम्, लॉजिस्टिक्स, कौशल-विकासः तथा निवेश-सम्बद्ध-विषयेषु उद्योगजगतः विचारा: प्राप्स्यन्ते। एतेषां विचाराणाम् आधारेण राज्ये टेक्सटाइल-उद्योगस्य विस्ताराय निवेशस्य च प्रवर्धनाय अग्रिमा रणनीतिः निर्मास्यते।

जनसम्पर्क-अधिकारिण्याः अनुसारम् मुख्यमन्त्री डॉ. मोहनयादवः निवेशकानां पुरतः मध्यप्रदेशस्य ताः विशेषताः अपि प्रकाशयिष्यति, याभिः राज्यं देशस्य अग्रणी-टेक्सटाइल-निवेश-गन्तव्येषु समाविष्टम् अस्ति। राज्ये कर्पास-उत्पादनात् आरभ्य स्पिनिङ्ग, वीविङ्ग, निटिङ्ग, रञ्जनम्, परिष्कारः तथा वस्त्र-निर्माणम् इत्यन्तं सम्पूर्णा टेक्सटाइल-मूल्य-शृङ्खला उपलब्धा अस्ति। देशस्य बृहत्तम-कार्बनिक-कर्पास-उत्पादक-राज्यत्वेन मध्यप्रदेशस्य परिचयः, 'फार्म् टू फैशन' इति अवधारणायाः आधारेण विकसितं टेक्सटाइल-पारिस्थितिक-तन्त्रं तथा धार-जनपदे प्रायः २,१५८ एकर-परिमिते क्षेत्रे विकसितं पीएम-मित्र-उद्यानं वैश्विक-निवेशकिनां विशेषम् आकर्षण-केन्द्रं भविष्यति। टेक्सटाइल-गार्मेण्ट्-पादत्राण-उद्योगानां कृते उपलब्धानि पूञ्जी-निवेश-प्रोत्साहनानि, व्याज-अनुदानम्, विद्युत्-शुल्क-प्रतिपूर्तिः, भूमिसम्बद्ध-शिथिलता: तथा अन्याः औद्योगिक-सुविधाः अपि निवेशकेभ्यः ज्ञापयिष्यन्ते।

तया उक्तं यत् भारत-टेक्स्-२०२६ इत्यस्य माध्यमेन मध्यप्रदेशस्य लक्ष्यं टेक्सटाइल-क्षेत्रे नवीन-निवेशस्य, अधिक-रोजगारस्य, निर्यात-विस्तारस्य तथा दीर्घकालिक-औद्योगिक-सहभागितायाः संवर्धनम् अस्ति। एतदेव उद्दिश्य मुख्यमन्त्री उद्योगजगतः प्रतिनिधीन् जनवरी २०२७ मासे आयोज्यमानायां ग्लोबल इन्वेस्टर्स समिट् इत्यस्यां सहभागितायै आमन्त्रयिष्यति तथा मध्यप्रदेशस्य औद्योगिक-विकास-यात्रायां भागिनः भवितुम् आह्वानं करिष्यति।

Hindusthan Samachar / Divya Ranjan