मध्यप्रदेशे 'नशे से दूरी है ज़रूरी २.०' जनजागरूकता-अभियानस्य अद्य मुख्यमन्त्रिणा कृत: शुभारम्भः
– १५ जुलाईमासात् ३० जुलाईमासपर्यन्तं २०२६ तमे वर्षे प्रदेशव्यापिनः व्यापकाः जनजागरूकता-कार्यक्रमाः भविष्यन्ति। भोपालनगरम्, १४ जुलाईमासः (हि.स.)। मध्यप्रदेशं नशामुक्तं कर्तुम् उद्दिश्य मध्यप्रदेश-आरक्षक-विभागेन ''नशे से दूरी है ज़रूरी २.०'' इति र
नशे से दूरी है ज़रूरी 2.0 जनजागरूकता अभियान


– १५ जुलाईमासात् ३० जुलाईमासपर्यन्तं २०२६ तमे वर्षे प्रदेशव्यापिनः व्यापकाः जनजागरूकता-कार्यक्रमाः भविष्यन्ति।

भोपालनगरम्, १४ जुलाईमासः (हि.स.)। मध्यप्रदेशं नशामुक्तं कर्तुम् उद्दिश्य मध्यप्रदेश-आरक्षक-विभागेन 'नशे से दूरी है ज़रूरी २.०' इति राज्यव्यापी-जनजागरूकता-अभियानस्य शुभारम्भः अद्य मङ्गलवासरे भोपालस्थिते रवीन्द्रभवने आयोजिते कार्यक्रमे मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये भविष्यति।

आरक्षक-मुख्यालयेन प्रदत्तायां सूचनायां उक्तं यत् अस्मिन् अभियाने सामाजिक-न्याय-दिव्याङ्गजन-सशक्तीकरण-विभागस्य, उच्चशिक्षा-विभागस्य तथा विद्यालय-शिक्षा-विभागस्य विशेषा सक्रिय-सहभागिता भविष्यति। एतेषां विभागानां समन्वित-प्रयत्नैः अभियानं समग्रप्रदेशे व्यापक-जनान्दोलनस्य स्वरूपं प्राप्स्यति।

उक्तं यत् एतत् अभियानं १५ जुलाईमासात् ३० जुलाईमासपर्यन्तं २०२६ तमे वर्षे समग्रप्रदेशे सञ्चालितं भविष्यति। अस्य अभियानस्य उद्देश्यं प्रदेशवासिनः, विशेषतः युवानः विद्यार्थिनश्च, नशायाः दुष्परिणामेषु जागरूकान् कृत्वा जनसहभागितायाः माध्यमेन नशामुक्त-मध्यप्रदेशस्य निर्माणाय प्रेरयितुम् अस्ति।

अभियानस्य अन्तर्गतं प्रदेशस्य सर्वेषु जनपदेषु आरक्षक-प्रशासन-शैक्षणिक-संस्थान-सामाजिकसङ्घटन-जन-प्रतिनिधीनां सहयोगेन विविधाः जन-जागरूकता-गतिविधयः आयोजयिष्यन्ते। तासु जागरूकता-यात्राः, सङ्गोष्ठ्यः, वीथि-नाटकानि, शपथग्रहण-कार्यक्रमाः, विद्यालयेषु महाविद्यालयेषु च संवादाः, जनचौपाल-कार्यक्रमाः, पोस्टर-स्लोगन-प्रतियोगिताः, सामाजिकमाध्यम-अभियानानि तथा नशामुक्ति-विषयकाः विशेष-कार्यक्रमाः समाविष्टाः भविष्यन्ति।

अस्मिन् कार्यक्रमे प्रदेशशासनस्य जनप्रतिनिधयः, वरिष्ठ-प्रशासनिक-आरक्षक-अधिकारिणः, विविधविभागानाम् अधिकारिणः, शिक्षाविदः, समाजसेविनः, स्वयंसेवी-संस्थानां प्रतिनिधयः, छात्राः, युवानः तथा समाजस्य विविधवर्गीयाः नागरिकाः उपस्थिताः भविष्यन्ति।

मध्यप्रदेश-आरक्षक-विभागेन प्रदेशवासिभ्यः आह्वानं कृतम् यत् ते अस्मिन् जनहितकारी-अभियाने सक्रिय-सहभागितां निर्वहन्तु, नशाविरुद्धं जनजागरूकतां प्रसारयन्तु तथा हमारा है यही संदेश, नशा-मुक्त हो मध्य प्रदेश इति सङ्कल्पस्य साकारतायै स्वयोगदानं प्रयच्छतु।

Hindusthan Samachar / Divya Ranjan