डॉ. मंडाविया हैदराबादे 15तमस्य ब्रिक्स ट्रेड यूनियन फोरम शिखर सम्मेलनस्य कृतवान् उद्घाटनम्
नवदिल्ली, 14 जुलाईमासः (हि.स)।केन्द्रीयश्रमरोजगारमन्त्री डा मनसुखमण्डावियः मङ्गलवासरे पञ्चदशस्य ब्रिक्स श्रमिकसङ्घमञ्चशिखरसम्मेलनस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे सः श्रमिककेन्द्रितायाः वैश्विकव्यवस्थायाः आह्वानम् अकरोत्, यस्याम् प्राविधिकप्रगतिः
15वें ब्रिक्स ट्रेड यूनियन फोरम शिखर सम्मेलन को संबोधित करते डॉ. मनसुख मंडाविया


15वें ब्रिक्स ट्रेड यूनियन फोरम शिखर सम्मेलन को संबोधित करते डॉ. मनसुख मंडाविया


15वें ब्रिक्स ट्रेड यूनियन फोरम शिखर सम्मेलन को संबोधित करते डॉ. मनसुख मंडाविया


नवदिल्ली, 14 जुलाईमासः (हि.स)।केन्द्रीयश्रमरोजगारमन्त्री डा मनसुखमण्डावियः मङ्गलवासरे पञ्चदशस्य ब्रिक्स श्रमिकसङ्घमञ्चशिखरसम्मेलनस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे सः श्रमिककेन्द्रितायाः वैश्विकव्यवस्थायाः आह्वानम् अकरोत्, यस्याम् प्राविधिकप्रगतिः सामाजिकन्यायेन उत्तरदायिनवोन्मेषेन मानवीयगौरवेण च निर्देशिता भवेत्।

डा मनसुखमण्डावियः उद्घाटनसत्रे ब्रिक्सदेशानां प्रतिनिधीन् सम्बोधयन् अवदत् यत् भारतस्य ब्रिक्स अध्यक्षतायाः विषयः सुदृढतायै नवोन्मेषाय सहयोगाय स्थायित्वाय च निर्माणम् इति देशस्य अस्यां प्रतिबद्धतां प्रतिपादयति यत् कार्यस्य भविष्यं समावेशी न्यायपूर्णं श्रमिककल्याणकेन्द्रितं च भवेत्।

अस्मिन् अवसरे भारतीयमजदूरसङ्घस्य अखिलभारतीयाध्यक्षः सुनकारी मल्लेशम अवदत् यत् अस्मिन् सम्मेलने चतुर्दश ब्रिक्सदेशेभ्यः षट्चत्वारिंशत् प्रतिनिधयः सहभागित्वं कुर्वन्ति। अस्मिन् भारतस्य विविधश्रमिकसङ्घेभ्यः प्रायः सप्ततिः सहभागिनः अपि सम्मिलिताः सन्ति। तेन उक्तं यत् वयं चतुर्षु विषयेषु विचारविमर्शं करिष्यामः। प्रथमः कार्यस्य भविष्ये महिलानां भूमिका। द्वितीयः सर्वेषां कृते सामाजिकसुरक्षा। तृतीयः कौशलविकासः पुनःकौशलविकासः उन्नतकौशलविकासश्च। चतुर्थः कृत्रिमबुद्धिमत्ता तथा कर्मकराणां भविष्यत्।

हैदराबादनगरे आयोजितस्य अस्य त्रिदिवसीयशिखरसम्मेलनस्य आयोजनं भारतीयमजदूरसङ्घेन कृतम्।

अस्य सत्रस्य सञ्चालनं भारतीयमजदूरसङ्घस्य महासचिवः सुरेन्द्रपाण्डेयः अकरोत् तथा पूर्वाध्यक्षः हिरण्मयपाण्डेयः धन्यवादप्रस्तावम् प्रस्तुतवान्। अस्मिन् कार्यक्रमे भारतीयमजदूरसङ्घस्य राष्ट्रियाध्यक्षः सुनकारी मल्लेशम तथा अखिलभारतीयसङ्गठनसचिवः बी सुरेन्द्रन् अपि उपस्थितौ आस्ताम्।

---------------

Hindusthan Samachar / Dheeraj Maithani