Enter your Email Address to subscribe to our newsletters

- मंत्रिणा कुशवाहेन राज्य स्तरीय कार्यशाला कृता संबोधिता
भोपालम्, 14 जुलाईमासः (हि.स.)।
मध्यप्रदेशस्य सामाजिकन्यायदिव्यांगजनसशक्तीकरणमन्त्री नारायणसिंहकुशवाहः अवदत् यत् भारतस्य संस्कृतिः, परम्पराः तथा पारिवारिकमूल्यानि अस्माकं महान् बलम् सन्ति। ग्राम्यप्रदेशानां समरससंस्कृतिः, सामाजिकसहभागिता तथा महिलानां सक्रियभूमिका भारतीयजीवनमूल्यानि दृढानि करोति। वृद्धजनानां सम्मानः, तेषां सेवा तथा परिवारस्य प्रति उत्तरदायित्वबोधः भारतीयसंस्कृतेः अभिन्नः अंशः अस्ति। वर्तमानकाले एतेषां मूल्यानां अधिकदृढीकरणस्य आवश्यकता वर्तते।
मन्त्री कुशवाहः मङ्गलवासरे सामाजिकन्यायविभागस्य सभागारे आयोजितायां राज्यस्तरीयकार्यशालायां क्रिएटिङ्ग अ वेल फङ्क्शनिङ्ग केयर इकोनोमी इति विषयकायां सभायां सम्बोधनं कुर्वन् उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे सबका साथ, सबका विकास, सबका विश्वास और सबका प्रयास इति मन्त्रस्य तथा मुख्यमन्त्री डा. मोहनयादवस्य मार्गदर्शनेन मध्यप्रदेशसर्वकारः समाजस्य प्रत्येकस्य दुर्बलवञ्चितवर्गस्य कल्याणाय दृढप्रतिबद्धतया कार्यं करोति। विभागः सामाजिकसुरक्षा, दिव्यांगजनसशक्तीकरणम्, वरिष्ठनागरिककल्याणम् तथा पुनर्वाससेवानां अधिकप्रभावकारित्वं, सुलभता तथा प्रौद्योगिकीआधारितव्यवस्थां सुदृढीकर्तुं निरन्तरं प्रयत्नशीलः अस्ति।
मन्त्री कुशवाहः उक्तवान् यत् प्रधानमन्त्री मोदिनः आह्वानेन अद्य एकनवतिशताधिकदेशैः योगः स्वीकृतः अस्ति। योगः स्वस्थजीवनस्य आधारः अस्ति तथा भारतीयसंस्कृतेः वैश्विकपरिचायकः अभवत्। आधुनिकजीवनशैल्याः सह अस्माभिः स्वीयपारम्परिकजीवनशैली, सम्यक् आहारविहारः तथा प्राकृतिकस्वास्थ्यपद्धतयः अपि अवश्यं स्वीकरणीयाः इति तेन उक्तम्।
मन्त्री कुशवाहः उक्तवान् यत् परिवारे समाजे च वरिष्ठनागरिकाणां अनुभवानां सम्मानः करणीयः। समयाभावात् परिवर्तितजीवनशैल्याश्च कारणात् पारिवारिकसंवादाः न्यूनाः भवन्ति, यद्यपि वृद्धजनानां अनुभवः नवीनपीढ्यै अमूल्या धरोहरः अस्ति। समाजे संस्काराणां सकारात्मकविचाराणां च सुदृढीकरणाय एतादृशाः संवादाः कार्यशालाश्च अत्यन्तम् आवश्यकाः सन्ति।
मन्त्री कुशवाहः अवदत् यत् प्रदेशे अशीत्यधिकाः वृद्धाश्रमाः सञ्चालिताः सन्ति तथा अनेकाः संस्थाः वरिष्ठनागरिकाणां आवश्यकतायुक्तजनानां च सेवायां कार्यरताः सन्ति। सेवा, संवेदनशीलता तथा मानवकल्याणम् भारतीयसंस्कृतेः मूलाधारः अस्ति। समाजे जनजागरूकतां वर्धयितुं सेवासंस्कृतेः सुदृढीकरणाय च एतादृशकार्यक्रमाः निरन्तरम् आयोजनीयाः इति तेन उक्तम्। विभागः समये समये चिन्तनशिविराणि कार्यशालाश्च आयोजयति, येन दिव्यांगजनानां, वरिष्ठनागरिकाणां तथा अन्येषां आवश्यकतायुक्तवर्गाणां कल्याणाय उपयोगिनः सुझावाः प्राप्यन्ते। विभागः भविष्ये केयर इकोनोमी सुदृढीकरणाय नीतिं कार्ययोजनां च निर्मास्यति, येन समाजस्य विविधवर्गेभ्यः उत्तमपरिचर्या तथा सेवाः प्रदातुं शक्यन्ते।
कार्यक्रमे प्रमुखसचिवा सामाजिकन्याय श्रीमती सोनाली पोंक्षे वायंगणकर, दिव्यांगजनायुक्तः अजयखेमरिया, सामाजिकन्यायायुक्तः कृष्णगोपालतिवारी, परशुरामकल्याणपरिषदः अध्यक्षः विष्णुराजोरिया तथा राज्यनीतिआयोगस्य मुख्यकार्यपालनाधिकारी ऋषिगर्गः सहिताः विभिन्नसंस्थानां प्रतिनिधयः विषयविशेषज्ञाश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani