Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 13 जुलाईमासः (हि.स.)।
केन्द्रीयसंसदीयकार्यमन्त्री अल्पसंख्यककार्यमन्त्री च किरेणरिजिजूः कतारदेशस्य पूर्वामीरस्य शेख-हमद-बिन्-खलीफा-आल्-थानी-महोदयस्य निधनस्य प्रसङ्गे भारतसरकारस्य देशवासिनां च पक्षतः शोकसंवेदनाः प्रकटयितुं मङ्गलवासरे दोहानगरं प्रति प्रस्थितवान्।
विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवाल-महोदयः सामाजिकसञ्चारमाध्यमे ‘एक्स’ इत्यत्र उक्तवान् यत् रिजिजू-महोदयः कतारदेशस्य यात्राकाले भारतसरकारस्य भारतीयजनतायाश्च पक्षतः शोकसंवेदनाः निवेदयिष्यति।
शेख-हमद-बिन्-खलीफा-आल्-थानी-महोदयः आधुनिककतारदेशस्य निर्माणे महत्त्वपूर्णां भूमिकाम् अवहत्। सः भारतस्य घनिष्ठमित्रम् आसीत् तथा भारतकतारदेशयोः सम्बन्धान् सुदृढीकर्तुं तस्य योगदानं सर्वदा स्मरणीयं भविष्यति।
तेन भारतकतारदेशयोः द्विपक्षीयसहकार्यं नवीनोच्चतां प्राप्तम्। ऊर्जाक्षेत्रे, व्यापारे, निवेशे, जनजनयोः परस्परसंपर्कवर्धने च तस्य प्रयत्नैः भारतकतारदेशयोः सम्बन्धाः विशेषरूपेण सुदृढाः अभवन्।
---------------
Hindusthan Samachar / Dheeraj Maithani