Enter your Email Address to subscribe to our newsletters

सारणम्, 14 जुलाईमासः (हि.स.)।
जिलाधिकारिणो वैभवश्रीवास्तवस्य अध्यक्षतायां अद्य जिलास्तरीयानुकम्पाचयनसमितेः उपवेशनम् आयोजितम्। अस्मिन् उपवेशने जिलापूर्तिशाखासम्बद्धानां दिवंगतानां सार्वजनिकवितरणप्रणालीविक्रेतृणाम् आश्रितेभ्यः अनुकम्पाधारेण नवीनानुज्ञप्तिप्रदानविषये विचारः कृतः।
सदरअनुमण्डलस्य नव, मढौराअनुमण्डलस्य नव तथा सोनपुरअनुमण्डलस्य चत्वारि इति समग्रतया द्वाविंशतिः प्रस्तावितप्रकरणानि समीक्षितानि। तेषु त्रयोदशप्रकरणानि स्वीकृत्य आश्रितेभ्यः नवीनानुज्ञप्तिप्रदानस्य अनुशंसा कृता। पञ्च अयोग्यावेदनानि अस्वीकृतानि तथा अवशिष्टेषु चतुर्षु प्रकरणेषु आवश्यकदस्तावेजान् सम्पूर्णीकृत्य अग्रिमोपवेशने प्रस्तुतुं निर्देशः प्रदत्तः।
दीर्घकालात् लम्बितेषु एतेषु प्रकरणेषु कठोरं दृष्टिकोणम् अवलम्ब्य जिलाधिकारी सर्वान् अनुमण्डलपदाधिकाऱिणः निर्देशितवान् यत् विक्रेतॄणां निधनानन्तरं तेषां परिवारजनैः सह शीघ्रं सम्पर्कं कृत्वा आवेदनपत्राणि संगृह्णीयुः। तेन अनुकम्पाप्रक्रियायाः शीघ्रीकरणे विशेषः बलः दत्तः, येन आश्रिताः अविलम्बं लाभं प्राप्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani