Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 जुलाईमासः (हि.स.)।
केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी तथा रक्षामन्त्री राजनाथसिंह सहितैः अनेकैः नेतृभिः मङ्गलवासरे राष्ट्रियस्वयंसेवकसंघस्य चतुर्थसरसंघचालकस्य रज्जूभैय्यस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिः अर्पिता।
नितिनगडकरी इत्यनेन एक्स माध्यमे लिखितम्, ‘‘राष्ट्रियस्वयंसेवकसंघस्य चतुर्थसरसंघचालकस्य रज्जूभैय्यस्य पुण्यतिथौ तस्मै विनम्राभिवादनम्।’’
राजनाथसिंहेन उक्तम् यत् प्रोफेसर राजेन्द्रसिंह उपाख्यः रज्जूभैय्या भौतिकीविषयस्य विद्वान्, कुशलः शिक्षाविद्, असाधारणः संगठनकर्ता च आसीत्। तस्य सम्पूर्णं जीवनं राष्ट्राय, समाजाय, संगठनाय च समर्पितम् आसीत्। तेन स्वजीवने सादगी, राष्ट्रवादः, सेवा च आदर्शरूपेण आत्मसात्कृताः। सः स्वदेशी, ग्रामोदयः, आत्मनिर्भरभारतस्य च प्रबलः समर्थकः आसीत्। राष्ट्रनिर्माणे तस्य योगदानम् तथा तस्य आदर्शाः आगामिपीढीः निरन्तरं प्रेरयिष्यन्ति।
केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराजसिंहचौहानेन उक्तम् यत् राष्ट्रस्य समाजस्य च सेवायै रज्जूभैय्येन सम्पूर्णं जीवनं तपस्विनः इव व्यतीतम् तथा असंख्यान् स्वयंसेवकान् एतस्मै महान्कार्याय सज्जीकृतवान्। रज्जूभैय्येन सेवायाः या पवित्रा ज्योतिः जनजनस्य हृदये प्रज्वालिता सा अस्मान् सर्वान् सदा देशस्य समाजस्य च उन्नत्यै प्रेरयतु।
केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतेन उक्तम् यत् संघस्य सेवायाम् आजीवनं समर्पितः, कर्मठतायाः कर्तव्यनिष्ठायाश्च प्रतीकभूतः रज्जूभैय्या प्रत्येकस्य संघकार्यकर्तुः प्रेरणास्रोतः भविष्यति।
विधिन्यायसंसदीयकार्यमामलानां स्वतन्त्रप्रभारमन्त्री अर्जुनराममेघवालेन उक्तम् यत् राष्ट्रियस्वयंसेवकसंघस्य चतुर्थसरसंघचालकः, प्रखरः राष्ट्रवादीचिन्तकः, शिक्षाविद्, मातृभारत्याः अनन्यः उपासकः प्रोफेसर राजेन्द्रसिंह रज्जूभैय्या इत्यस्य पुण्यतिथौ तस्मै कोटिशः नमनम्।
---------------
Hindusthan Samachar / Dheeraj Maithani