अमृत-भारत-स्थानक-योजनायाः अन्तर्गतं २४.९५ कोटि-रूप्यकैः शामली-रेलस्थानकस्य पुनर्विकासः सम्पन्नः
नवदिल्ली, १४ जुलाईमासः (हि.स.)। उत्तर-रेलविभागस्य दिल्ली-मण्डलान्तर्गतस्य शामली-रेलस्थानकस्य अमृत-भारत-स्थानक-योजनायाः अन्तर्गतं २४.९५ कोटि-रूप्यकाणां व्ययेन व्यापकः पुनर्विकासः सम्पन्नः। स्थानकम् आधुनिक-यात्रि-सुविधाभिः सुसज्जीकृत्य अधिकं सुगमं, स
शामली रेलवे स्टेशन का


नवदिल्ली, १४ जुलाईमासः (हि.स.)। उत्तर-रेलविभागस्य दिल्ली-मण्डलान्तर्गतस्य शामली-रेलस्थानकस्य अमृत-भारत-स्थानक-योजनायाः अन्तर्गतं २४.९५ कोटि-रूप्यकाणां व्ययेन व्यापकः पुनर्विकासः सम्पन्नः। स्थानकम् आधुनिक-यात्रि-सुविधाभिः सुसज्जीकृत्य अधिकं सुगमं, सुरक्षितं सुविधाजनकं च निर्मितम्।

अमृत-भारत-स्थानक-योजना भारतीय-रेलविभागस्य महत्त्वाकाङ्क्षिणी योजना अस्ति। अस्याः उद्देश्यं देशव्यापिनां रेलस्थानकानां चरणबद्धम् आधुनिकी-करणं कृत्वा यात्रिभ्यः विश्वस्तरीय-सुविधाः प्रदातुं तथा स्थानकानां समीपवर्तिभिः क्षेत्रैः सह उत्तमं सम्पर्कं सुनिश्चितं कर्तुं च अस्ति। अस्याः योजनायाः अन्तर्गतं स्थानक-परिसराणां समग्र-विकासः, मार्ग-संयोजनस्य, पद-पथानां तथा अन्यासाम् आधारभूत-संरचनानामपि विस्तारः क्रियते।

शामली-रेलस्थानकस्य पुनर्विकासस्य अन्तर्गतं स्थानक-भवनस्य नवीनीकरणं कृतम्। यात्रिणां सुविधार्थं द्वादश-मीटर-विस्तृतः पदाति-उपरी-सेतुः निर्मितः। एतदतिरिक्तं नूतनं वाहन-स्थापन-क्षेत्रम्, सञ्चरण-क्षेत्रम्, आधुनिक-प्रतीक्षालयः तथा शौचालय-समूहः विकसिताः सन्ति। मञ्च-आच्छादनस्य तथा मञ्च-पृष्ठभागस्य अपि उन्नयनं कृतम्, येन यात्रिभ्यः अधिकाः सुविधाः प्राप्येरन्।

स्थानकं दिव्याङ्गजन-अनुकूलं कर्तुमपि विशेषं बलं दत्तम्। अस्य अन्तर्गतं प्रवेश-रैम्प, स्पर्श-पथः, सुगम्य-शौचालयः, पेयजल-कक्षः, आरक्षित-वाहन-स्थापन-क्षेत्रम् इत्यादयः आवश्यक-सुविधाः विकसिताः सन्ति। सहैव द्वौ उद्वाहकौ अपि स्थापितौ स्तः, येन वृद्धानां, दिव्याङ्ग-जनानां तथा अन्येषां यात्रिणां गमनागमनं अधिकं सुगमं भविष्यति।

भारतीय-रेलविभागस्य मतम् अस्ति यत् अमृत-भारत-स्थानक-योजनायाः माध्यमेन रेलस्थानकानाम् आधुनिकी-करणं न केवलं यात्रिणां यात्रा-अनुभवं उन्नेष्यति, अपितु स्थानीय-क्षेत्रस्य समग्र-विकासाय तथा उत्तम-संयोजनाय अपि नूतनां गतिं प्रदास्यति।

/ अंशु गुप्ता