रक्षामन्त्रिणा नेशनल वॉर मेमोरियलत कारगिलं प्रति ‘शौर्य-विजय-यात्रा’ प्रस्थापिता
– अग्रिमेषु त्रयोदशसु दिवसेषु अष्टाविंशतिः चालका: १९०० किलोमीटर-दूरं गत्वा २६ जुलाईमासे कारगिल-युद्ध-स्मारकं प्राप्स्यन्ति। नवदिल्ली, १४ जुलाईमासः (हि.स.)। कारगिल-विजय-दिवसस्य राष्ट्रव्यापी-आयोजनस्य भागरूपेण रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे नवद
नई दिल्ली के नेशनल वॉर मेमोरियल से ‘शौर्य विजय यात्रा’ को रवाना करते रक्षा मंत्री राजनाथ सिंह


– अग्रिमेषु त्रयोदशसु दिवसेषु अष्टाविंशतिः चालका: १९०० किलोमीटर-दूरं गत्वा २६ जुलाईमासे कारगिल-युद्ध-स्मारकं प्राप्स्यन्ति।

नवदिल्ली, १४ जुलाईमासः (हि.स.)। कारगिल-विजय-दिवसस्य राष्ट्रव्यापी-आयोजनस्य भागरूपेण रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे नवदिल्ली-स्थितात् नेशनल-वॉर-मेमोरियलतः लद्दाखस्य द्रास-स्थितं कारगिल-युद्ध-स्मारकं प्रति त्रयोदश-दिवसीयां ‘शौर्य-विजय-यात्राम्’ हरित-ध्वजं प्रदर्श्य प्रस्थापितवान्। अस्मिन् अभियाने सहभागीभूताः अष्टाविंशतिः चालका: उत्तर-हिमालयस्य दुर्गम-प्रदेशान् अतिक्रम्य १९०० किलोमीटर-दूरं गमिष्यन्ति। कारगिल-युद्धे विजयप्रदायकानां भारतीय-वीराणां साहसं, दृढसंकल्पं परमबलिदानं च सम्मानयितुमस्य अभियानस्य आदर्श-वाक्यं “वन राइड, वन नेशन, वन सैल्यूट” इति अस्ति।

स्वसम्बोधने रक्षामन्त्री कारगिल-युद्धस्य वीर-सैनिकेभ्यः श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् तैः धैर्यस्य, धृत्याः, अनुशासनस्य अनुपम-देशभक्तेः च स्वर्णिमः इतिहासः लिखितः, यं अद्यापि विश्वस्य सेनाः आदरेण पश्यन्ति। प्रायः विंशतिसहस्र-पाद-उन्नतेषु पर्वतेषु तथा ऋण-चत्वारिंशत्-अंश-सेल्सियस-पर्यन्तं पतिते तापमानेऽपि भारतीय-सैनिकाः अदम्य-साहसेन स्वकर्तव्यं सम्पन्नवन्तः। तैः शत्रोः आधिपत्यात् सर्वाणि शिखराणि, गिरयः पुनः स्वाधीनाः कृताः तथा त्रिरङ्गस्य मानं संरक्षितम्। एष: विजयः भारतस्य भूमेः, अस्मितायाः, सम्मानस्य च रक्षणे दृढसंकल्पस्य प्रतीकः अस्ति।

राजनाथसिंहः परमवीरचक्र-विभूषितानां कैप्टन-विक्रम-बत्रा, लेफ्टिनेन्ट्-मनोजकुमार-पाण्डेय:, सूबेदार-मेजर योगेन्द्रसिंह-यादव: (सेवानिवृत्तः) तथा सूबेदार-मेजर: संजयकुमार: (सेवानिवृत्तः) इत्येतै: सह सर्वेषां भारतीय-वीराणां युद्ध-विजये अमूल्य-योगदानस्य पुण्यस्मरणम् अकरोत्। सः उक्तवान् यत् एते वीराः यूनां प्रेरणास्रोतांसि सन्ति तथा भावि-वंशमपि प्रेरयिष्यन्ति। मार्गे चालका: चण्डीमन्दिर-युद्ध-स्मारके, रेजाङ्गला-युद्ध-स्मारके, लेह-युद्ध-स्मारके च श्रद्धाञ्जलिं समर्पयिष्यन्ति। ते वीर-नारीभिः सह संवादं कृत्वा ताः सम्मानयिष्यन्ति।

सः अवदत् यत् ‘शौर्य-विजय-यात्रा’ २६ जुलाईमासे कारगिल-विजय-दिवसे कारगिल-युद्ध-स्मारके समाप्स्यते। अस्मिन् अवसरे चालका: नेशनल वॉर मेमोरियल इत्यस्य पवित्र-मृत्तिकया पूर्णं कलशं वहिष्यन्ति, यः कारगिले वीराणां स्मृत्यर्थं समर्पयिष्यते। रक्षामन्त्री उक्तवान् यत् यदा अत्रत्य-मृत्तिका कारगिलस्य मृत्तिकया सह मिलिष्यति, तदा तत् वर्तमान-वंशस्य सम्मानस्य तथा देशस्य वीराणां पराक्रमस्य सङ्गमस्य प्रतीकं भविष्यति। शौर्य-विजय-यात्रायाः वैशिष्ट्यम् उल्लिख्य सः अवदत्—भिन्नाः पृष्ठभूमयः, भाषाः, परम्पराश्च सन्ति, तथापि एकः त्रिरङ्गः, एकं राष्ट्रं, वीरान् प्रति समाना श्रद्धा एव भारतस्य वास्तविकः परिचयः अस्ति।

ध्वजारोहण-प्रस्थान-समारोहे नेशनल कैडेट कोर इत्यस्य कैडेटछात्राणाम् उपस्थितिं प्रशंसन् रक्षामन्त्री विश्वासं व्यक्तवान् यत् एषा यात्रा जनसामान्येषु, विशेषतः युवसु, राष्ट्रभक्तेः नूतनां चेतनां जनयिष्यति। सः अवदत् यत् अस्याः यात्रायाः माध्यमेन भावि-वंश: एतं सन्देशं प्राप्स्यति यत् राष्ट्रस्य स्वतन्त्रतायाः सम्मानस्य च रक्षा केवलं सीमासु एव न, अपितु अस्माकं स्मृतिषु, संस्कारेषु, मूल्येषु च निहिता अस्ति। अस्मिन् अवसरे चीफ ऑफ डिफेन्स स्टाफ जनरल एन.एस.राजा सुब्रमणि, सेनाप्रमुखः जनरल धीरज-सेठः तथा अन्ये वरिष्ठ-अधिकारीण: उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan