Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालम्, 14 जुलाईमासः (हि.स.)।
हरेलापर्वणः उपलक्ष्ये उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अद्य पौरीगढवालजनपदस्य यमकेश्वरविकासखण्डस्थितं मालाग्रामं गत्वा वृक्षारोपणकार्यक्रमे सहभागित्वम् अकरोत्। तेन वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य हरितोत्तराखण्डस्य च सन्देशः प्रदत्तः। अनन्तरं मुख्यमन्त्री 'श्रीधन्वन्तरिधाम हर्बल वर्ल्ड हिमालय' इति परिसरस्य विस्तृतं परिभ्रमणं कृत्वा तत्र संरक्षितानां दुर्लभौषधीयवनस्पतीनां, अनुसन्धानगतिविधीनां तथा आयुर्वेदाधारितनवाचाराणां विषये सूचना प्राप्तवान्। तेन परिसरस्थध्यानकुट्याः अपि निरीक्षणं कृतम्।
कार्यक्रमे भ्रमणावसरे मुख्यमन्त्री उत्तराखण्डस्य समृद्धजैवविविधतायाः, हिमालयीयौषधीयवनस्पतीनां तथा पारम्परिकायुर्वेदज्ञानस्य संरक्षणसंवर्धनयोः विशेषं बलम् अददात्। तेन उक्तं यत् राज्यस्य एषा प्राकृतिकधरोहरः समग्रविश्वस्य कृते अमूल्या अस्ति तथा अस्याः संरक्षणं वैज्ञानिकानुसन्धानं च वर्तमानकाले अत्यावश्यकम्। अस्मिन् दिशि क्रियमाणाः प्रयासाः पर्यावरणसंरक्षणाय नूतनां दिशं प्रदास्यन्ति, औषधीयपादपसंवर्धनम्, आयुर्वेदाधारितम् अनुसन्धानम्, हर्बलपर्यटनस्य विकासं तथा स्थानीययुवभ्यः स्वरोजगारस्य आजीविकायाश्च नवान् अवसरान् सृक्ष्यन्ति इति अपि तेन अभिहितम्।
मालाग्रामस्थितं 'श्रीधन्वन्तरिधाम हर्बल वर्ल्ड हिमालय' इति भारतस्य स्वप्रकारस्य अद्वितीयं हर्बल उद्यानम् अस्ति, यत्र देशस्य विविधराज्येभ्यः हिमालयीयप्रदेशेभ्यश्च आनीतानां दुर्लभजडीबूटीनां औषधीयपादपानां च वैज्ञानिकरीत्या संरक्षणसंवर्धने क्रियते। एषः परिसरः पारम्परिकचिकित्सापद्धतीनां आधुनिकवैज्ञानिकानुसन्धानस्य च समन्वयस्य महत्त्वपूर्णं केन्द्रं भवति।
अस्मिन् कार्यक्रमे पतञ्जलियोगपीठस्य संस्थापकः स्वामी रामदेवः, आचार्य बालकृष्णः, राज्यमहिलाआयोगस्य अध्यक्षा कुसुमकण्डवालः, यमकेश्वरविधानसभाक्षेत्रस्य विधायकः रेनूबिष्टः, जिलाधिकारी स्वाति एस्. भदौरिया, वरिष्ठपुलिसाधीक्षकः सर्वेशपंवारः, भाजपाजनपदाध्यक्षः राजगौरवनौटियालः, उपजिलाधिकारी चतरसिंहचौहानः तथा अन्ये गणमान्याः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani