यूएई-क्रिकेट-मण्डलेन आईसीसी-विकास-पुरस्कारेषु २०२५ तमे वर्षे त्रीणि प्रमुख-सम्मानानि प्राप्तानि
नवदिल्ली, १४ जुलाईमासः (हि.स.)। संयुक्त-अरब-अमीरात-देशस्य क्रिकेट-मण्डलेन २०२५ तमवर्षस्य आईसीसी-विकास-पुरस्कारेषु उत्कृष्टं प्रदर्शनं कृत्वा त्रीणि वैश्विक-सम्मानानि स्वनाम्नि कृतानि। एतेषां पुरस्काराणां घोषणा स्कॉटलैण्डदेशस्य एडिनबर्ग-नगरे आयोजित
आईसीसी चेयरमैन जय शाह ने ईसीबी के सीओओ सुभान अहमद और ईसीबी की महिला अधिकारियों अंजनी गजा और छाया मुगल को डेवलपमेंट इनिशिएटिव ऑफ़ द ईयर अवार्ड 2025' सौंपा।


नवदिल्ली, १४ जुलाईमासः (हि.स.)। संयुक्त-अरब-अमीरात-देशस्य क्रिकेट-मण्डलेन २०२५ तमवर्षस्य आईसीसी-विकास-पुरस्कारेषु उत्कृष्टं प्रदर्शनं कृत्वा त्रीणि वैश्विक-सम्मानानि स्वनाम्नि कृतानि।

एतेषां पुरस्काराणां घोषणा स्कॉटलैण्डदेशस्य एडिनबर्ग-नगरे आयोजितस्य आईसीसी-वार्षिक-सम्मेलनस्य अवसरे कृता। आईसीसी-विकास-पुरस्काराः एसोसिएट-सदस्य-देशैः क्रिकेट-विकासे, महिला-क्रिकेट-प्रोत्साहने, दल-प्रदर्शने, डिजिटल-उपक्रमेषु, सामाजिक-प्रभावे च कृतानाम् उत्कृष्ट-कार्याणां सम्मानार्थं प्रदीयन्ते।

अधः-पञ्चदश-वर्षीय-बालिका-अकादमी-लीग-स्पर्धाया: महत् सम्मानम्

यूएई-क्रिकेट-मण्डलं ‘वर्षस्य श्रेष्ठ-विकास-उपक्रमः’ इति पुरस्कारेण तस्य ऐतिहासिकायै अधः-पञ्चदश-वर्षीय-बालिका-अकादमी-स्पर्धायै सम्मानितम्। एषा स्वप्रकारस्य प्रथमा स्पर्धा केवलं क्रिकेट-विकासमेव न, अपितु सामाजिक-प्रभावमपि उत्पादितवती। अस्याः उपक्रमस्य माध्यमेन सहस्रशः बालिकाभ्यः प्रतिस्पर्धात्मक-क्रिकेट-क्रीडायाः अवसरः प्राप्तः, यः पूर्वं ताभ्यः नासीत्। एषः कार्यक्रमः क्रीडामाध्यमेन समान-अवसरान्, आत्मविश्वासं, सहभागितां च प्रवर्धितवान्।

महिला-क्रिकेट-प्रोत्साहनाय उपक्रमोऽपि सम्मानितः

द्वितीय-वर्षेऽपि यूएई-क्रिकेट-मण्डलं ‘वर्षस्य श्रेष्ठ-महिला-क्रिकेट-उपक्रमः’ इति पुरस्कारेण सम्मानितम्। अस्मिन् वर्षे एषः पुरस्कारः तुर्किये-क्रिकेट-मण्डलेन सह संयुक्तरूपेण प्रदत्तः। यूएई-देशे आयोजितस्य आईसीसी-महिला-टी-२०-विश्वकप-२०२४ इत्यस्य परम्पराम् अग्रे नयन् इण्टरस्कूल-क्रिइयो-गल्फ-कप तथा गेट-इन-टु-क्रिकेट इति केवलं बालिकानां कृते सञ्चालित-कार्यक्रमाभ्यां विद्यालयेषु, समुदायेषु, विविध-अमीरात-प्रदेशेषु च बालिकाः क्रिकेट-क्रीडया सम्बद्धाः अभवन्। यत्र पूर्वं बालिकानां कृते क्रिकेट-व्यवस्था नासीत्, तत्रापि अस्य उपक्रमस्य माध्यमेन नूतना व्यवस्था आरब्धा।

यूएई-महिला-दलस्य ऐतिहासिक-प्रदर्शनमपि सम्मानितम्

यूएई-महिला-दलं ‘आईसीसी-एसोसिएट-सदस्य-महिला-दल-प्रदर्शन-पुरस्कारेण’ सम्मानितम्। दलं एकदिवसीय-उपाधि-प्राप्तेः अनन्तरं प्रथमवारं जिम्बाब्वे-देशस्य विरुद्धं पञ्चाशदधिक-ओवर-स्पर्धा-श्रृङ्खलां २–२ इति समीकृतवती। ततः परं टी-२०-अन्ताराष्ट्रिय-श्रृङ्खलां २–० इति विजित्य विदेशभूमौ उच्च-क्रमाङ्कितस्य पूर्ण-सदस्य-देशस्य विरुद्धं प्रथमवारं श्रेणी-विजयं प्राप्तवती।

यूएई-क्रिकेट-मण्डलस्य सदस्यः जायद-अब्बासः आईसीसी-उद्धरणेन उक्तवान्— “एते पुरस्काराः यूएई-क्रिकेट-मण्डलस्य प्रबन्धकानां, अधिकारिणां, क्रीडकाणां, सहयोगि-कर्मचारिणां च कृते प्रेरणास्रोतांसि सन्ति। वयं आईसीसी-संस्थायै धन्यवादं दद्मः, या एसोसिएट-सदस्य-देशानां प्रयत्नान् वैश्विक-स्तरे सम्मानयितुं अवसरम् अददात्। एते पुरस्काराः अस्माकं उत्साहं प्रतिबद्धतां च अधिकां सुदृढां कृतवन्तः। वयं भविष्येऽपि एतादृशान् विकास-उपक्रमान् आरब्धुं अधिकं दृढसंकल्पिताः स्मः।”

आईसीसी-विकास-पुरस्काराः २०२५ — विजेतारः

वर्षस्य श्रेष्ठ-विकास-उपक्रमः — यूएई-क्रिकेट-मण्डलम्।

वर्षस्य श्रेष्ठ-महिला-क्रिकेट-उपक्रमः — यूएई-क्रिकेट-मण्डलम् तथा तुर्किये-क्रिकेट-मण्डलम्।

एसोसिएट-सदस्य-महिला-दल-प्रदर्शन-पुरस्कारः — यूएई-क्रिकेट-मण्डलम्।

एसोसिएट-सदस्य-पुरुष-दल-प्रदर्शन-पुरस्कारः — इटली-क्रिकेट-महासङ्घः।

वर्षस्य डिजिटल-प्रशंसक-सहभागिता-पुरस्कारः — जापान-क्रिकेट-सङ्घः।

‘क्रिकेट-फॉर-गुड’ सामाजिक-प्रभाव-उपक्रम-पुरस्कारः — ब्राज़ील-क्रिकेट-महासङ्घः।

क्रिइयो-क्रिकेट-महोत्सव-पुरस्कारः — नाइजीरिया-क्रिकेट-महासङ्घः।

Hindusthan Samachar / Divya Ranjan