अनूपपुरम् : एक पेड़ मां के नाम इत्यस्य अभियानस्य राष्ट्रिय अनुसूचित जनजाति आयोगस्य अध्यक्षः अकरोत् पादपारोपणम्
अनूपपुरम्, 14 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य अनूपपुरजनपदे राष्ट्रियअनुसूचितजनजातिआयोगस्य अध्यक्षः अन्तरसिंहार्यः मङ्गलवासरे अनूपपुरप्रवासस्य अवसरे समाहर्तृकार्यालयपरिसरे एकः वृक्षः मातुः नाम्ना इति अभियानस्य अन्तर्गतं गुलमोहरवृक्षस्य रोपणं कृत्
राष्ट्रीय अनुसूचित जनजाति आयोग के अध्यक्ष पौधारोपण करते हुए


अनूपपुरम्, 14 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य अनूपपुरजनपदे राष्ट्रियअनुसूचितजनजातिआयोगस्य अध्यक्षः अन्तरसिंहार्यः मङ्गलवासरे अनूपपुरप्रवासस्य अवसरे समाहर्तृकार्यालयपरिसरे एकः वृक्षः मातुः नाम्ना इति अभियानस्य अन्तर्गतं गुलमोहरवृक्षस्य रोपणं कृत्वा पर्यावरणसंरक्षणस्य हरितभविष्यस्य च सन्देशं प्रदत्तवान्।

तेन उक्तं यत् वृक्षारोपणं केवलं पर्यावरणसंरक्षणस्य माध्यमं नास्ति, अपितु आगामिपीढीनां प्रति अस्माकं उत्तरदायित्वस्य प्रतीकमपि अस्ति। तेन सर्वेभ्यः नागरिकेभ्यः स्वमातुः सम्मानार्थं न्यूनातिन्यूनम् एकस्य वृक्षस्य रोपणं तस्य संरक्षणस्य च संकल्पं कर्तुम् आह्वानं कृतम्।

अस्मिन्नवसरे राज्यअनुसूचितजनजातिआयोगस्य अध्यक्षः रामलालरौतेलः, समाहर्ता हर्षलपञ्चोली, मुख्यकार्यपालनाधिकारी जिलापञ्चायत् अर्चनाकुमारी तथा अन्ये अतिथयः अपि वृक्षारोपणम् अकुर्वन्। समाहर्तृकार्यालयपरिसरे आम्रः, निम्बः, गुलमोहरः सहिताः विविधप्रजातीनां प्रायः पञ्चदश वृक्षाः रोपिताः। कार्यक्रमस्य उद्देश्यं जिले हरितावरणस्य वर्धनम्, जैवविविधतायाः संरक्षणम् तथा सामान्यजनान् पर्यावरणसंरक्षणस्य प्रति जागरूकान् उत्तरदायिनः च कर्तुम् आसीत्।

अस्मिन्नवसरे भाजपाजिलाध्यक्षः हीरासिंहश्यामः, पूर्वाध्यक्षः रामदासपुरी, सहायकायुक्ता सुश्री सरितानायकः, उद्यानिकीविभागस्य तथा अन्यविभागानां अधिकारिणः कर्मचारीणः, जनप्रतिनिधयः तथा गणमान्यानागरिकाः उपस्थिताः आसन्। सर्वे वृक्षारोपणं कृत्वा वृक्षाणां संरक्षणस्य नियमितपरिचर्यायाश्च संकल्पं कृतवन्तः तथा हरितअनूपपुरनिर्माणे सक्रियसहभागितायाः सन्देशं प्रदत्तवन्तः।

उल्लेखनीयम् अस्ति यत् मध्यप्रदेशसर्वकारेण सञ्चालितस्य एकः वृक्षः मातुः नाम्ना इति अभियानस्य माध्यमेन अधिकाधिकान् जनान् वृक्षारोपणाय प्रेरयितुं प्रयत्नः क्रियते। अभियानस्य उद्देश्यं केवलं वृक्षारोपणं न, अपितु तेषां संरक्षणं संवर्धनं च जनसहभागितया सम्बध्य पर्यावरणसंरक्षणं जनान्दोलनरूपेण प्रतिष्ठापयितुम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani