Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १४ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां ज्येष्ठमासस्य पूर्णिमातिथौ भक्तानां प्रेम्णा सम्पन्नेन अतिशय-जलाभिषेकेन प्रतीकरूपेण अस्वस्थ: अभवत् भगवान् जगन्नाथः। चतुर्दशदिनानां विश्रान्तेः अनन्तरं मङ्गलवासरे स: पुनः स्वस्थ: अभवत्। अस्सी-स्थिते जगन्नाथ-मन्दिरे प्रातःकाले मन्दिरस्य कपाटोद्घाटनानन्तरं भगवत: जगन्नाथस्य, भ्रातुः बलभद्रस्य भगिन्याः सुभद्रायाश्च दर्शनार्थं श्रद्धालूनां महान् सम्मर्द: समुपागत:। प्रभोः मङ्गलारार्तिक्याः अनन्तरं श्रद्धालवः भगवतः काष्ठ-विग्रहस्य पुरतः नैवेद्यं, फलानि पुष्पाणि च समर्प्य स्वगृहेषु सुख-समृद्ध्योः कामनाम् अकुर्वन्।
एतस्मात् पूर्वं मन्दिरस्य महन्तः राधेश्याम-पाण्डेयः मन्दिर-न्यासस्य पदाधिकरिणां सन्निधौ भगवत: जगन्नाथस्य विग्रहं पञ्चामृतेन स्नापयित्वा श्वेत-वस्त्राणि धारितवान्, पुष्पमालाभिः च अलङ्कृत्य भव्यां मङ्गलारार्तिकीं कृतवान्। प्रातः पञ्चवादने मङ्गलारार्तिक्या: अनन्तरं जय जगन्नाथ इति घोषेण सह दर्शन-पूजनस्य क्रमः प्रारब्धः। प्रातःकाले एव भगवान् प्रथमं पथ्यरूपेण परवल-रसस्य नैवेद्यं समर्पितम्।
मन्दिरे भगवत: जगन्नाथस्य दर्शनार्थं भक्तानां विपुल: सम्मर्द: समागत:। श्रद्धालवः नाथानां नाथस्य भगवत: जगन्नाथस्य दर्शनं प्राप्य परमं हर्षम् अनुभूतवन्तः। अस्मिन् अवसरे सम्पूर्णं मन्दिर-प्राङ्गणं जय जगन्नाथ इति घोषेण गुञ्जितम् आसीत्। पूर्वाह्णे सार्ध-दशवादने भगवाने पञ्चभोगः समर्पितः। मध्याह्ने द्वादशवादने मन्दिरस्य कपाटः पिहितः। ततः अपराह्णे त्रिवादने पुनः उद्घाट्य दर्शन-पूजनस्य क्रमः पुनरारब्धः। रात्रौ अष्टवादने सन्ध्यारार्ताकी, नववादने शयनारार्तिकी च सम्पन्ना भविष्यति, ततः मन्दिरं पिधास्यते।
मन्दिरस्य पुजारीण: राधेश्याम-पाण्डेयस्य अनुसारेण बुधवासरे, १५ जुलाईमासे, भगवान् डोलिकायाम् आरुह्य नगर-भ्रमणाय निर्गमिष्यति, यस्य सर्वाः सज्जताः सम्पन्नाः सन्ति। तदनन्तरं १६ जुलाईमासात् काश्याः विश्वविख्यात: त्रिदिवसीय: रथयात्रा-मेलापकः प्रारभ्स्यते।
Hindusthan Samachar / Divya Ranjan