काशी हिंदू विश्वविद्यालयः भविष्यति फिजियोथेरेपी एवं ऑक्युपेशनल थेरेपी इत्येतयोः केंद्रं, पुनर्वास चिकित्सायै मिलिष्यति नूतनदिङ्
वाराणसी,14 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे स्थिते काशीहिन्दूविश्वविद्यालये (बीएचयू) शीघ्रमेव भौतिकचिकित्सा-व्यावसायिकचिकित्साकेन्द्रस्य स्थापना भविष्यति। विश्वविद्यालयस्य कार्यकारिणीपरिषदा २७ मई दिनाङ्के सम्पन्नायां सभायां अस्य प्रस्त
प्रतीक


वाराणसी,14 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे स्थिते काशीहिन्दूविश्वविद्यालये (बीएचयू) शीघ्रमेव भौतिकचिकित्सा-व्यावसायिकचिकित्साकेन्द्रस्य स्थापना भविष्यति। विश्वविद्यालयस्य कार्यकारिणीपरिषदा २७ मई दिनाङ्के सम्पन्नायां सभायां अस्य प्रस्तावस्य अनुमोदनं कृतम्। आधुनिकचिकित्साविज्ञानस्य अस्मिन् महत्त्वपूर्णे क्षेत्रे समर्पितस्य अस्य केन्द्रस्य स्थापना विश्वविद्यालयस्य महत्त्वपूर्णोपलब्धिरूपेण परिगण्यते।

चिकित्सासङ्कायस्य प्रमुखः प्रो. (डा.) सञ्जयगुप्तः अवदत् यत् अस्य केन्द्रस्य स्थापनायाः प्रस्तावः कुलपतिना प्रो. अजितकुमारचतुर्वेदिना निरन्तरं मार्गदर्शनं समर्थनं च प्राप्तवान्। तेन उक्तं यत् एतत् केन्द्रं चिकित्साशिक्षायाः, अनुसन्धानस्य, गुणवत्तायुक्तपुनर्वाससेवानां च विकासाय नूतनां दिशं प्रदास्यति तथा रोगिभ्यः उत्तमचिकित्सासेवाप्रदाने महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

बीएचयू-चिकित्साविज्ञानसंस्थानस्य (आईएमएस) निदेशकः प्रो. एस. एन. संखवारः उक्तवान् यत् भौतिकचिकित्सा तथा व्यावसायिकचिकित्सा आधुनिकस्वास्थ्यव्यवस्थायाः अभिन्नः अत्यन्तमहत्त्वपूर्णश्च अंशः अभवताम्। परिवर्तितजीवनशैल्याः कारणेन उत्पन्नरोगाणां, मार्गदुर्घटनानां, स्नायुतन्त्रविकाराणां, क्रीडाजन्याघातानां तथा वृद्धावस्थासम्बद्धसमस्यानां प्रभाविपुनर्वासे एतयोः भूमिका निरन्तरं वर्धमाना अस्ति।

तेन अपि सूचितं यत् प्रस्ताविते केन्द्रे प्रमाणाधारितचिकित्सापद्धतीनां, उच्चगुणवत्तायुक्तप्रशिक्षणस्य तथा उन्नतानुसन्धानस्य प्रोत्साहनं भविष्यति। एतत् केन्द्रं राष्ट्रियस्तरे उत्कृष्टताकेन्द्ररूपेण विकसितुं प्रयत्नाः अपि क्रियन्ते। प्रो. संखवारस्य मते वर्तमानचिकित्सापरिदृश्ये भौतिकचिकित्सायाः व्यावसायिकचिकित्सायाश्च आवश्यकता पूर्वापेक्षया अत्यधिकं वर्धिता अस्ति। एतत् नूतनं केन्द्रं विद्यार्थिभ्यः आधुनिकप्रशिक्षणं, बहुविषयकशिक्षां, अनुसन्धानस्य उत्तमानवसरान् च प्रदास्यति, रोगिभ्यश्च समग्राः वैज्ञानिकाः गुणवत्तायुक्ताः पुनर्वाससेवाः उपलब्धाः करिष्यति।-----------------

Hindusthan Samachar / Dheeraj Maithani