Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 14 जुलाईमासः (हि.स.)।
गुरुकुलकाङ्गडीसमविश्वविद्यालये सप्ताहपर्यन्तं सञ्चालितस्य आर्यवीर आर्यावीराङ्गनाप्रशिक्षणशिविरस्य समापनं मङ्गलवासरे आर्यदीक्षान्तसमारोहेण भव्यरूपेण सम्पन्नम्। वैदिकपरम्परानुसारं ध्वजारोहणेन मन्त्रौच्चारणेन च नवदीक्षितान् आर्यवीरान् आर्यावीराङ्गनाश्च प्रशस्तिपत्रैः वैदिकसाहित्येन च सम्मानिताः।
सार्वदेशिकार्यवीरदलस्य देहलीस्थितस्य शिविरप्रशिक्षणव्यवस्थापकः बृहस्पत्यार्यः अवदत् यत् जीवनं सरलम्, सात्त्विकम्, सहयोगपूर्णं च भवेत्। मातृवान्, पितृवान्, आचार्यवान् च सन्तानः एव राष्ट्रस्य वास्तविकरक्षां कर्तुं समर्थाः भवन्ति।
वैदिकविद्वान् डाक्टर योगेशभारद्वाजः प्रकृत्या सह सम्बन्धं संवेदनशीलजीवनस्य आधारम् इति निरूप्य युवभ्यः आर्यसमाजस्य गुरुकुलस्य च विचारधारां प्रवर्धयितुम् आह्वानम् अकरोत्।
वरिष्ठवैज्ञानिकः प्रोफेसर एल पी पुरोहितः अवदत् यत् कृत्रिमबुद्धेः वर्धमानप्रभावस्य मध्ये संस्काराधारितप्रशिक्षणस्य आवश्यकता अधिका अभवत्।
डाक्टर श्यामसिंहः परिवारस्य सम्बन्धानां च सुदृढीकरणम्, शस्त्रस्य सह शास्त्रशिक्षायाः महत्त्वम् तथा भारतीयसंस्कृतेः संरक्षणम् इति विषयेषु विशेषं बलम् अदात्। समारोहस्य मुख्याकर्षणं प्रशिक्षकस्य धर्मवीरार्यस्य निर्देशनाधीने नानचाक, खड्ग, परशु तथा दण्डसञ्चालनस्य रोमाञ्चकप्रदर्शनानि आसन्। पिरामिडस्तूपनिर्माणयोः प्रस्तुती अपि दर्शकानां प्रशंसाम् अलभत।
कुलसचिवः प्रो सत्यदेवनिगमालङ्कारः अध्यक्षतां कुर्वन् अवदत् यत् शौर्यस्य वैदिकज्ञानस्य च संरक्षणमेव राष्ट्रस्य सुरक्षायाः आधारशिला अस्ति।
कार्यक्रमस्य सञ्चालनं डाक्टर सन्दीपवेदालङ्कारः, डाक्टर अङ्कितः तथा डाक्टर मनोजः अकुर्वन्। अस्मिन्नवसरे बहुसंख्यकाः प्राध्यापकाः, आर्यसमाजस्य पदाधिकारिणः, विद्यार्थिनः तथा गणमान्यजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani