Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, १४ जुलाईमास: (हि.स.)। २६ जुलाईमासे आचर्यमाणस्य कारगिल-विजय-दिवस-शौर्य-दिवसस्य गरिमामय-आयोजनस्य सज्जतां दृष्ट्वा जनपद-कार्यालयस्य सभागारे अपर-जनपदाधिकारीण: जितेन्द्रकुमारस्य अध्यक्षतायां समीक्षासभा सम्पन्ना। सभायां कार्यक्रमस्य रूपरेखा विभागानुसारं दायित्व-विभाजनं च निश्चितम्। अपर-जनपदाधिकारिणा उक्तं यत् कार्यक्रमः राष्ट्रभक्ति-अनुशासन-सम्मान-भावनाभिः सह आयोजनीयः। सर्वाः व्यवस्थाः समयसीमायाः अन्तर्गतं सम्पादनीयाः।
निर्णीतं यत् कार्यक्रमस्थलस्य स्वच्छता, मञ्च-सज्जा, ध्वनि-व्यवस्था, शहीदानां श्रद्धाञ्जलि-समर्पणम्, गार्ड-ऑफ-ऑनर-प्रदर्शनम्, पूर्वसैनिकानां वीर-नारीणां च आवागमन-व्यवस्था, अतिथीनां स्वागत-व्यवस्था च सम्बन्धित-विभागैः सम्पादयिष्यते। कार्यक्रमे एनसीसी-कैडेटछात्राणां विशेषा भूमिका भविष्यति। विद्यालयेषु शिक्षण-संस्थासु च कारगिल-विजय-दिवसस्य निमित्तं निबन्ध-भाषण-चित्रकला-सांस्कृतिक-प्रतियोगिताः आयोजयिष्यन्ते, येन विद्यार्थिषु राष्ट्रभक्तिः बलिदानिषु च सम्मान-भावना वर्धेत। २६ जुलाईमासात् पूर्वं क्रीडा-प्रतियोगिताः आयोज्य विजेतारः सम्मानिताः भविष्यन्ति। पूर्वसैनिकानां, वीर-नारीणां, गणमान्य-अतिथीनां च अधिकतमा सहभागिता सुनिश्चितुं निर्देशाः प्रदत्ताः। जनपद-सैनिक-कल्याण-अधिकारिणी डॉ. सरिता-पंवार सर्वेभ्यः विभागेभ्यः समये सहयोगस्य आह्वानम् अकरोत्। सभायां सदर-क्षेत्राधिकारी एसपी बलूनी, तेजपालसिंहः, रविन्द्रभण्डारी, गणेश-सकलानी तथा अन्ये अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan