ताहिर हुसैने न्यायालयस्य निर्णयेन भाजपादलं कृतवान् स्वागतं, केजरीवालस्य मौने उत्थापितः प्रश्नः
नव दिल्ली, 14 जुलाईमासः (हि.स.)। दिल्लीदङ्गसमये गुप्तचरविभागस्य अधिकारी अङ्कितशर्मा-महोदयस्य हत्याप्रकरणे न्यायालयस्य निर्णयस्य स्वागतं कुर्वती भारतीयजनतापार्टी आमआदमीपार्टीं कांग्रेसदलञ्च तीव्रतया समालोचितवती। भारतीयजनतापार्ट्या उक्तं यत् न्याया
भाजपा प्रवक्ता गौरव भाटिया


नव दिल्ली, 14 जुलाईमासः (हि.स.)।

दिल्लीदङ्गसमये गुप्तचरविभागस्य अधिकारी अङ्कितशर्मा-महोदयस्य हत्याप्रकरणे न्यायालयस्य निर्णयस्य स्वागतं कुर्वती भारतीयजनतापार्टी आमआदमीपार्टीं कांग्रेसदलञ्च तीव्रतया समालोचितवती। भारतीयजनतापार्ट्या उक्तं यत् न्यायालयस्य निर्णयेन एतत् स्पष्टं जातं यत् गुप्तचरविभागस्य अधिकारी अङ्कितशर्मा स्वकर्तव्यपालनकाले एव नृशंसतया हतः आसीत् तथा च अस्मिन् प्रकरणे दोषिभ्यः दण्डः विधास्यते।

भारतीयजनतापार्ट्याः मुख्यालये मङ्गलवासरे आयोजितायां पत्रकारवार्तायां प्रवक्ता गौरवभाटिया उक्तवान् यत् दिल्लीदङ्गप्रकरणे न्यायालयेन तत्कालीनस्य आमआदमीपार्ट्याः पार्षदस्य ताहिरहुसैनस्य सह जावेदः, अनसः, नाजिमः, कासिमश्च दोषिणः घोषिताः। न्यायालयेन स्वीकृतं यत् एते सर्वे षड्यन्त्रस्य समानाभिप्रायस्य च आधारेण एतां घटनाम् अञ्जामितवन्तः। न्यायालयेन स्वनिर्णये उक्तं यत् अङ्कितशर्मणः हत्या व्यापकषड्यन्त्रस्य अङ्गम् आसीत्।

गौरवभाटिया अवदत् यत् घटनाकाले अरविन्दकेजरीवालः दिल्लीप्रदेशस्य मुख्यमन्त्री आसीत् तथा ताहिरहुसैनः तस्य दलस्य निर्वाचितः पार्षदः आसीत्। तेन स्मारितं यत् २०२० तमस्य वर्षस्य मार्चमासे संसदि केन्द्रीयगृहमन्त्री अमितशाह-महोदयः आश्वासनं दत्तवान् यत् दङ्गेषु सम्मिलितानां सर्वेषाम् आरोपितानां विरुद्धं कठोरकार्यवाही भविष्यति तथा कश्चनापि न परित्रायिष्यते। तेन उक्तं यत् न्यायालयस्य अयं निर्णयः न्यायस्य, विधेः, संविधानस्य च विजयः अस्ति।

गौरवभाटिया कांग्रेसदलमपि लक्ष्यीकृत्य अवदत् यत् नागरिकतासंशोधनविधेयकस्य विषये विपक्षेन देशे जनेषु भ्रमः प्रसारितः तथा जनाः उद्दीपिताः। तेन कांग्रेसदलस्य नेतृभ्यः सोनियागान्धी-महोदया, राहुलगान्धी, मल्लिकार्जुनखड्गे-महोदयश्च पृष्टाः यत् नागरिकतासंशोधनविधेः प्रवर्तनानन्तरं कियतां मुस्लिमजनानां नागरिकता नष्टा अभवत्। तस्य उत्तरम् “शून्यम्” इति एव अस्तीत्यपि तेन उक्तम्।

तेन आमआदमीदलस्य विधायकस्य अमानतुल्लाखान-महोदयस्य तस्य वक्तव्यस्यापि आलोचना कृता, यस्मिन् तेन न्यायालयस्य निर्णयः “दुर्भाग्यपूर्णः” इति उक्तः। गौरवभाटिया-महोदयः अवदत् यत् न्यायालयेन साक्ष्याणां साक्षिणां च आधारेण एव अयं निर्णयः प्रदत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani