महर्षि दैवज्ञ चंडू जयंत्याम् आयोजिते शिविरे उत्पन्नो जनसंमर्दः
द्विसहस्रात् अधिकजनाः अगृह्णान्नि:शुल्कस्य ज्योतिष परामर्शस्य लाभम् जोधपुरम्, 14 जुलाईमासः (हि.स.)। महर्षेः दैवज्ञचण्डोः जयन्त्याः पावनावसरे सूर्यनगरे आयोजिते निःशुल्कज्योतिषपरामर्शशिविरे जनानाम् अभूतपूर्वः उत्साहः दृष्टः। सीताज्योतिषवास्तुअनुसन्
jodhpur


द्विसहस्रात् अधिकजनाः अगृह्णान्नि:शुल्कस्य ज्योतिष परामर्शस्य लाभम्

जोधपुरम्, 14 जुलाईमासः (हि.स.)। महर्षेः दैवज्ञचण्डोः जयन्त्याः पावनावसरे सूर्यनगरे आयोजिते निःशुल्कज्योतिषपरामर्शशिविरे जनानाम् अभूतपूर्वः उत्साहः दृष्टः। सीताज्योतिषवास्तुअनुसन्धानकेन्द्रस्य, श्यामभक्तिसेवासंस्थानस्य तथा मारवाडप्रेसक्लबस्य संयुक्ततत्त्वावधाने आयोजिते अस्मिन् शिविरे द्विसहस्राधिकैः जातकैः विविधज्योतिषपरामर्शानां लाभः प्राप्तः। बहुसंख्यया उपस्थितानां जनानां समस्यासमाधानार्थं देशस्य विविधप्रदेशेभ्यः आगताः ज्योतिषविशेषज्ञाः जन्मपत्र्या, वास्तुशास्त्रेण, अङ्कज्योतिषेण, हस्तरेखाविज्ञानेन, टैरोविद्यया तथा अन्याभिः विधाभिः मार्गदर्शनम् अददुः।

कार्यक्रमस्य अध्यक्षतां राजस्थानउच्चन्यायालयस्य पूर्वन्यायाधीशः न्यायमूर्तिः गोपालकृष्णव्यासः अकरोत्। मुख्यातिथिरूपेण सीमा सुरक्षा बलस्य महानिरीक्षकः एम एल गर्गः उपस्थितः आसीत्, विशिष्टातिथिरूपेण च जिलापरिषदः मुख्यकार्यपालनाधिकारी आशीषमिश्रः कार्यक्रमस्य शोभाम् अवर्धयत्। कार्यक्रमे वरिष्ठसमाजसेवी अरुणमाहेश्वरी, अरुणासांखला, मारवाडप्रेसक्लबस्य अध्यक्षः राजीवगौडः स्वसम्पूर्णदलसमेतः उपस्थितः आसीत्। श्यामभक्तिसेवासंस्थानस्य पदाधिकारीणः सदस्याश्च कार्यक्रमे सहभागित्वा कार्यक्रमस्य शोभाम् अवर्धयन्। शिविरस्य आयोजनं पण्डित एस के जोशीस्य नेतृत्वे अभवत्। कार्यक्रमस्य सञ्चालनं कवयित्री लेखिका च अंशुहर्षा अकरोत्, श्यामभक्तिसेवासंस्थानस्य कार्यवाहकसचिवः हेमन्तलालवानी धन्यवादप्रस्तावम् अकरोत्।

ज्योतिषक्षेत्रे उल्लेखनीयसेवाभिः वरिष्ठज्योतिषाचार्यः पण्डित घनश्यामद्विवेदी लाइफटाइम अचीवमेण्ट अवार्डेन सम्मानितः। अस्मिन् आयोजने सेवां प्रदत्तवन्तः सर्वे ज्योतिषविशेषज्ञाः ज्योतिषशिरोमणिपुरस्कारेण सम्मानिताः। सम्मानितेषु विशेषज्ञेषु दिल्लीतः एस्ट्रो राजीवकोहली, एस्ट्रो मोनिकाखुराना, कुमारप्रवीणः, सिग्नेचरविशेषज्ञः सन्दीपभार्गवः, टैरोकार्डविशेषज्ञा कान्ताराठी, प्रतापगढतः पण्डित बृजमोहनशर्मा, सीकरतः हस्तरेखाविशेषज्ञः डाक्टर श्यामशर्मा, समदडीतः कीर्तिश्रीमाली, बीकानेरतः डाक्टर नन्दकिशोरपुरोहितः, उज्जयिनीतः पण्डित अजयकृष्णव्यासः, मेडतातः पण्डित विष्णुप्रकाशशर्मा, रायचूर कर्नाटकतः डाक्टर नरेशशर्मा, पण्डित विजयदत्तपुरोहितः, ज्योतिर्विद् पण्डित खींवराजशर्मा, पण्डित शङ्करसिंहराजपुरोहितः, डाक्टर भेरूप्रकाशदाधीचः, पण्डित मनोजमिश्रः, कौशलनारायणजोशी, नवीनओमजीरामावतः, भूपेन्द्रवास्तु, पण्डित मुकेशदाधीचः, पण्डित मुकेशशर्मा, डाक्टर सञ्जयबोहरा, रितेशव्यासः, अर्चनाप्रजापति, टैरोकिरणभाग्यश्री, दमयन्तीजाङ्गिडः, डाक्टर काजोलशर्मा, ओमकुमारीव्यासः, डाक्टर डिम्पलव्यासः तथा डाक्टर अक्षिताकच्छवाहा समाविष्टाः आसन्।

उल्लेखनीयसेवाभ्यः समाजसेविनः पवनबूबः, देवेशमिश्रः, अंशुहर्षा, राजीवगौडः तथा श्यामभक्तिसेवासंस्थानस्य अध्यक्षा मोनिकाप्रजापत् सम्मानिताः। तस्याः अनुपस्थितौ कार्यवाहकसचिवः हेमन्तलालवानी पुरस्कारं स्वीकृतवान्।

अस्मिन्नवसरे आयोजनसमितेः सदस्याः किशोरसिंहपंवारः, लक्कीगोयलः, मनीषगहलोतः, नितिनाचार्यः, पुखराजजाङ्गिडः, जगदीशकुमारः, ईश्वरसिंहउदावतः, माधवसिंहः, मोहितहेडा, निश्चलसोलङ्की, एन के ओझा, प्रभांशुजोशी, भूमित्रजोशी, अक्षिताराजपुरोहिता, मुकेशहर्षः, भवानीसिंहराजपुरोहितः तथा प्रवीणसिंहराजपुरोहितः स्वसेवाभिः सम्मानिताः।

Hindusthan Samachar / Dheeraj Maithani