हिसार: पूर्व सांसदस्य गो-भक्त पिता नंद किशोर गोयनका पंचतत्वे विलीनः
केंद्रीय मंत्रिणं मनोहर लालं समेत्य अनेके मंत्रिणः, उद्योगपतयः, संताः, समाजसेविनः सहस्रशो जनाश्चायच्छन् अंतिमप्रयाणम् हिसारः, 15 जुलाईमासः (हि.स.)। गोसेवा, समाजसेवा तथा राष्ट्रवादीविचारधारायाः प्रखरसंवाहकः नन्दकिशोर गोयनका बुधवासरे पञ
अंतिम संस्कार के लिए पार्थिव शव अग्रोहा ले जाते पूर्व सांसद डॉ. सुभाष चन्द्रा व अन्य परिजन।


डॉ. सुभाष चन्द्रा को सांत्वना देते केन्द्रीय मंत्री मनोहर लाल।


केंद्रीय मंत्रिणं मनोहर लालं समेत्य अनेके मंत्रिणः,

उद्योगपतयः, संताः, समाजसेविनः सहस्रशो जनाश्चायच्छन् अंतिमप्रयाणम्

हिसारः, 15 जुलाईमासः (हि.स.)।

गोसेवा, समाजसेवा तथा राष्ट्रवादीविचारधारायाः प्रखरसंवाहकः नन्दकिशोर गोयनका बुधवासरे पञ्चतत्त्वेषु विलीनः अभवत्। तस्य अन्तिमयात्रा हिसारस्थितायाः श्रीवैष्णवगोशालातः अग्रोहाधामस्थितं गोयनकोद्यानं यावत् पूर्णश्रद्धया, सम्मानेन तथा गरिम्णा सह सम्पन्ना। अन्तिमयात्रायां समुपस्थितया विशालजनसमूहया एतत् स्पष्टं प्रदर्शितं यत् नन्दकिशोर गोयनका केवलं कस्यचित् परिवारस्य नाम नासीत्, अपितु समाजस्य प्रेरणायाः पर्यायः आसीत्। हिसारस्थिते गोयनका हाउसे बुधवासरे प्रातःकालात् एव अन्तिमदर्शनार्थं जनानां दीर्घपङ्क्तिः आसीत्। ततः परं वैष्णवगोशालातः विशेषरूपेण अलङ्कृते रथे तस्य अन्तिमयात्रा प्रारब्धा। हिसारात् अग्रोहां यावत् मार्गस्य विविधस्थानेषु जनाः पुष्पाणि समर्प्य तस्मै अन्तिमविदां प्रदत्तवन्तः। परिवारस्य पक्षतः एस्सेल ग्रुपस्य अध्यक्षः डा सुभाषचन्द्रः, जवाहर गोयनका, लक्ष्मीनारायण गोयनका, अशोक गोयनका तथा परिवारस्य अन्ये सदस्याः यात्राकाले उपस्थिताः आसन्। शोकस्य अस्यां घटीकायां परिवारस्य सह देशस्य विविधभागेभ्यः समागताः शुभचिन्तकाः अपि निरन्तरं तेषां सह स्थितवन्तः।

**अस्मिन् अवसरे केन्द्रीय ऊर्जामन्त्री मनोहरलाल खट्टर, हरियाणाराज्यस्य शिक्षामन्त्री महिपाल ढांडा, जनस्वास्थ्याभियान्त्रिकीमन्त्री रणबीर गंगवा, पूर्वमन्त्री डा कमल गुप्ता, पूर्वमन्त्री डा हर्षवर्धन, राज्यसभासांसदः सुभाष बराला, आदमपुरविधानसभाक्षेत्रस्य विधायकः चन्द्रप्रकाशः तथा पूर्वराज्यसभासांसदः डा डी पी वत्स सहिताः अनेकाः जनप्रतिनिधयः उपस्थिताः आसन्। एतेभ्यः अतिरिक्तं देशस्य विविधभागेभ्यः समागताः बहवः उद्योगपतयः, चलचित्रजगतः प्रतिष्ठितजनाः, सन्तमहात्मानः, समाजसेविनः, गोभक्ताः, शिक्षाविदः, वणिजः, ग्रामीणजनाः तथा विविधसामाजिकधार्मिकसङ्घटनानां प्रतिनिधयः अपि अन्तिमयात्रायां सहभागीभूताः। सहस्रशः जनानाम् उपस्थितिः नन्दकिशोर गोयनकस्य प्रति समाजस्य गाढसम्मानं तस्य व्यापकसामाजिकप्रभावं च प्रतिपादितवती।

Hindusthan Samachar / Dheeraj Maithani