प्रदेशस्य सर्वेषु 75 जनपदेषु 10 अगस्त तमे दिनांके दास्यते कृमिनाशकम् औषधम्
लखनऊ, 15 जुलाईमासः (हि.स.)। राष्ट्रीय कृमिमुक्तिदिवसस्य वर्तमानचरणः प्रदेशस्य समस्तेषु पञ्चसप्ततिजनपदेषु दशम्यां अगस्तमासस्य २०२६ दिनाङ्के आयोज्यते। ये लाभार्थिनः अस्मिन् दिवसे वञ्चिताः भविष्यन्ति तेभ्यः चतुर्दश्यां अगस्तमासस्य २०२६ दिनाङ्के पूरकदि
बैठक करते अपर मुख्य सचिव चिकित्सा एवं स्वास्थ्य अमित घोष


लखनऊ, 15 जुलाईमासः (हि.स.)। राष्ट्रीय कृमिमुक्तिदिवसस्य वर्तमानचरणः प्रदेशस्य समस्तेषु पञ्चसप्ततिजनपदेषु दशम्यां अगस्तमासस्य २०२६ दिनाङ्के आयोज्यते। ये लाभार्थिनः अस्मिन् दिवसे वञ्चिताः भविष्यन्ति तेभ्यः चतुर्दश्यां अगस्तमासस्य २०२६ दिनाङ्के पूरकदिवसे एल्बेण्डाजोल नाम कृमिनाशकगोलिका खादयिष्यते। अस्मिन् चरणे प्रायः नवकोटिद्विनवतिलक्षाधिक नवतिद्विलक्ष बालानां कृमिमुक्तिकरणस्य लक्ष्यं निर्धारितम् अस्ति।

उक्तकार्यक्रमस्य सफलतायै उत्तमसमन्वयाय च अमितकुमारघोषः अपरमुख्यसचिवः चिकित्सास्वास्थ्यपरिवारकल्याणविभागस्य उत्तरप्रदेशशासनस्य अध्यक्षतायां बुधवासरे लालबहादुरशास्त्रीभवनस्य सभागारे समस्तसहयोगिविभागानां वरिष्ठाधिकारिभिः सह अन्तर्विभागीयसमन्वयबैठकस्य आयोजनम् अभवत्। अस्यां बैठके डा पिंकीजोवल राष्ट्रियस्वास्थ्यमिशनस्य उत्तरप्रदेशस्य मिशननिदेशिका डा पवनकुमारअरूणः चिकित्सास्वास्थ्यस्य तथा परिवारकल्याणस्य महानिदेशकः उज्ज्वलकुमारः यू पी एम एस सी एल संस्थायाः प्रबन्धनिदेशकः तथा राज्यस्तरीयकार्यक्रमाधिकारिणः सहभागिनः अभवन्।

बैठके अपरमुख्यसचिवेन चिकित्सास्वास्थ्यपरिवारकल्याणविभागेन निर्देशः प्रदत्तः यत् कार्यक्रमस्य आयोजनं समस्तेषु विद्यालयेषु आङ्गनवाडीकेन्द्रेषु च भविष्यति। अतः समस्तेभ्यः लाभार्थिभ्यः अभियानदिने एल्बेण्डाजोल नाम कृमिनाशकगोलिकायाः सेवनं सुनिश्चितं करणीयम्।

अभियानस्य आयोजनं ग्रामीणक्षेत्रेषु नगरीयक्षेत्रेषु च तथा शासकीयविद्यालयैः सह निजीविद्यालयेषु अपि प्रमुखतया भविष्यति। अस्मिन् वारे नगरीयक्षेत्रेषु स्थितेषु निजीशिक्षणसंस्थासु अधिकाधिकलाभप्रदानेन उद्देश्येन विशेषरणनीतिः निर्मिता अस्ति। अभियाने नगरीयक्षेत्रस्य निजीविद्यालयानां शतप्रतिशतसहभागिता सुनिश्चितीकर्तुं संयुक्तरणनीतिः अपि निर्मिता अस्ति।

बैठके निर्देशः प्रदत्तः यत् दशम्यां अगस्तमासस्य २०२६ दिनाङ्के समस्तेषु शासकीयनिजीविद्यालयेषु विशेषशिक्षकअभिभावकबैठकस्य आयोजनं क्रियताम्। यस्याम् अभिभावकाणां साक्षात् उपस्थितौ अध्यापकाः स्वपर्यवेक्षणे बालेभ्यः एल्बेण्डाजोल नाम कृमिनाशकगोलिकां खादयिष्यन्ति। तथैव आङ्गनवाडीकेन्द्रेषु आङ्गनवाडीकार्यकर्त्रीभिः दशम्यां अगस्तमासस्य २०२६ दिनाङ्के विशेषमातृबैठकस्य आयोजनं कृत्वा आङ्गनवाडीकेन्द्रेषु स्थितेभ्यः बालेभ्यः एल्बेण्डाजोलगोलिका खादयिष्यते।

Hindusthan Samachar / Dheeraj Maithani