Enter your Email Address to subscribe to our newsletters

बक्सरः, 15 जुलाईमासः (हि.स.)।
जनपदे उच्चशिक्षाक्षेत्रे बुधवासरे ऐतिहासिकः अध्यायः समायोजितः। चक्की, चौगाई, केसठ तथा ब्रह्मपुरप्रखण्डेषु नवनिर्मितानां चतुर्णां स्नातकमहाविद्यालयानां शुभारम्भः अभवत्। बिहारराज्यस्य मुख्यमन्त्री सम्राटचौधरी राज्यव्यापिनां नवाधिकद्विशतस्य (२११) स्नातकमहाविद्यालयानां पठनपाठनकार्यस्य शुभारम्भं दृश्यश्रव्यदूरसञ्चारमाध्यमेन अकरोत्।
बक्सरजनपदस्य मुख्योद्घाटनसमारोहः केसठप्रखण्डस्य रघुनाथपुरपञ्चायत्यां स्थिते केएचके प्लस-२ उच्चविद्यालयपरिसरे आयोजितः, यत्र जिलाधिकारी साहिला कार्यक्रमस्य उद्घाटनम् अकरोत्।
अवसरे सा अवदत् यत् एतेषां नवीनमहाविद्यालयानां उद्घाटनेन जनपदस्य विद्यार्थिनः, विशेषतः छात्र्यः, स्वगृहसमीपे एव स्नातकस्तरीयां गुणवत्तापूर्णां शिक्षां प्राप्तुं अवसरं प्राप्स्यन्ति। अनेन दूरवर्तिक्षेत्रेषु अध्ययनार्थं गमनस्य आवश्यकता न्यूना भविष्यति तथा उच्चशिक्षायाः विस्तारोऽपि भविष्यति।
जिलाधिकारिणी सफलकार्यक्रमाय जनप्रतिनिधिभ्यः, अधिकारिभ्यः, अध्यापकेभ्यः, विद्यार्थिभ्यः, सामान्यनागरिकेभ्यश्च कृतज्ञतां प्रकटयन्ती विश्वासं व्यक्तवती यत् एते चत्वारः महाविद्यालयाः बक्सरजनपदस्य उच्चशिक्षाक्षेत्रे नूतनां परिचितिं स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।
अस्मिन् कार्यक्रमे उपविकासायुक्तः, अपरसमाहर्ता, सहायकसमाहर्ता, डुमराँव-अनुमण्डलाधिकारी, विशेषकार्याधिकारी तथा अन्ये जनपदस्तरीयाधिकारिणः अपि उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani