आईआईटी कानपुरस्य 59तमे दीक्षांत समारोहे 3,104 विद्यार्थिभ्योऽमिलन् उपाधयः - डॉ. पवन गोयनका
कानपुरम्, 15 जुलाईमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य एकोनषष्टितमदीक्षान्तसमारोहे अस्मिन् वर्षे ३१०४ विद्यार्थिभ्यः उपाधयः प्रदत्ताः। एषा उपलब्धिः केवलं शैक्षणिकसफलता न, अपितु राष्ट्रस्य भविष्यनिर्माणस्य दिशि महत्त्वपूर्णः पदक्षेपः
फोटो क्रेडिट आईआईटी कानपुर


कानपुरम्, 15 जुलाईमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य एकोनषष्टितमदीक्षान्तसमारोहे अस्मिन् वर्षे ३१०४ विद्यार्थिभ्यः उपाधयः प्रदत्ताः। एषा उपलब्धिः केवलं शैक्षणिकसफलता न, अपितु राष्ट्रस्य भविष्यनिर्माणस्य दिशि महत्त्वपूर्णः पदक्षेपः अस्ति। एतानि वचनानि बुधवासरे भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य एकोनषष्टितमदीक्षान्तसमारोहे मुख्यातिथिः डा पवन गोयनका उक्तवान्।

भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य एकोनषष्टितमः दीक्षान्तसमारोहः सम्पन्नः, यस्मिन् स्नातक, स्नातकोत्तर तथा ई मास्टर्स कार्यक्रमेषु अध्ययनरताः कुलं ३१०४ विद्यार्थिनः उपाधिभिः सम्मानिताः। तेषु १२४७ स्नातकविद्यार्थिनः, १३२५ स्नातकोत्तरविद्यार्थिनः तथा ५३२ ई मास्टर्स कार्यक्रमस्य विद्यार्थिनः समाविष्टाः आसन्। समारोहस्य अध्यक्षतां भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य बोर्ड आफ गवर्नर्स इत्यस्य कार्यवाहकाध्यक्षः जयन्त पाटिल अकरोत्। मुख्यातिथिः भारतीयराष्ट्रीयान्तरिक्षसंवर्धनप्राधिकरणकेन्द्रस्य इन स्पेस अध्यक्षः पद्मश्रीसम्मानितः डा पवन गोयनका आसीत्, संस्थानस्य निदेशकः प्रो मणीन्द्र अग्रवाल अपि उपस्थितः आसीत्।

दीक्षान्तसमारोहः द्वयोः सत्रयोः आयोजितः। प्रथमसत्रे मुख्यसभागारे राष्ट्रपतिस्वर्णपदकं, निदेशकस्वर्णपदकं सहितानि विविधानि पदकानि पुरस्काराश्च प्रदत्ताः, द्वितीयसत्रे तु विविधव्याख्यानकक्षेषु विद्यार्थिभ्यः औपचारिकरूपेण उपाधयः समर्पिताः।

मुख्यातिथिः डा पवन गोयनका उक्तवान् यत् जीवनं दीर्घा यात्रा अस्ति, यस्यां विफलताभ्यः शिक्षां गृहीत्वा अग्रे गन्तव्यम्। तेन विद्यार्थिनः कदापि पराजयं न स्वीकर्तुम्, महान् स्वप्नानि द्रष्टुम्, जनेषु विश्वासं कर्तुम्, निरन्तरं शिक्षितुम् तथा विकसितभारतस्य निर्माणे स्वप्रतिभायाः ज्ञानस्य च योगदानं दातुम् आहूताः।

भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य बोर्ड आफ गवर्नर्स इत्यस्य कार्यवाहकाध्यक्षः जयन्त पाटिल उक्तवान् यत् उपाधिः केवलं शैक्षणिकसिद्धिः न, अपितु नवीनानां दायित्वानां प्रारम्भः अस्ति। तेन विद्यार्थिनः प्रामाणिकतया, नवोन्मेषेण तथा समाजस्य प्रति उत्तरदायित्वपालने प्रेरिताः।

संस्थानस्य निदेशकः प्रो मणीन्द्र अग्रवाल उक्तवान् यत् अद्यतनस्य प्रौद्योगिकीयुगे केवलं सूचना पर्याप्ता नास्ति। सम्यक्प्रश्नान् पृष्टुं, नैतिकनिर्णयान् कर्तुं, विविधविषयाणां मध्ये सम्बन्धान् स्थापयितुं तथा मानवीयमूल्यानि संरक्षितुं या क्षमता सा एव वास्तविकबुद्धिमत्ता अस्ति। तेन विद्यार्थिनः आजीवनं शिक्षमाणाः भवितुम् तथा कालेन सह स्वयम् निरन्तरं विकसितुं प्रेरिताः।

अस्मिन् वर्षे ३९० पीएचडी, ५३ एमटेक पीएचडी संयुक्तोपाधिः, ५०२ एमटेक, ८५२ बीटेक, २१२ बीएस, १८६ एमएससी, ५९ एमबीए, ३६ एमडिजाइन, ६६ एमएस अनुसन्धाने, १०७ द्वैतोपाधिः सहिताः विविधपाठ्यक्रमाणां विद्यार्थिनः उपाधिभिः सम्मानिताः। राष्ट्रपतिस्वर्णपदकं कम्प्यूटर साइन्स एण्ड इंजीनियरिंग विभागस्य सागर के वी इत्यस्मै प्रदत्तम्। निदेशकस्वर्णपदकं स्टैटिस्टिक्स एण्ड डेटा साइन्स विभागस्य आदित्य वी तथा एयरोस्पेस इंजीनियरिंग विभागस्य ऋत्विक शङ्कर इत्येताभ्यां प्रदत्तम्। ध्रुव बुधेदेव रतनस्वरूपस्मृतिपुरस्कारेण सम्मानितः, तथा विविधशैक्षणिककार्यक्रमाणां मेधाविविद्यार्थिनः अन्यैः संस्थागतपदकैः अकादमिकउत्कृष्टतापुरस्कारैश्च सम्मानिताः।

समारोहस्य अन्ते पारम्परिकदीक्षान्तवस्त्राणि धारयन्तः विद्यार्थिनः स्वोपाधयः स्वीकृत्य जीवनस्य नवीनपारीम् आरब्धवन्तः तथा ज्ञानेन, नवोन्मेषेण, नेतृत्वेन सामाजिकउत्तरदायित्वेन च सह राष्ट्रस्य विकासे योगदानं दातुं संकल्पम् अकुर्वन्।

Hindusthan Samachar / Dheeraj Maithani