राधागोबिंद बरुवा इत्यस्य पुण्यतिथौ मुख्यमंत्री सरमा अददात् श्रद्धांजलिम्
गुवाहाटी, 15 जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वसर्मा बुधवासरे आधुनिकस्य असमस्य शिल्पकारः इति मान्यमानस्य राधागोबिन्दबरुवा इत्यस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्री स्वस्य सामाजिकमाध्यमसन्
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 15 जुलाईमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वसर्मा बुधवासरे आधुनिकस्य असमस्य शिल्पकारः इति मान्यमानस्य राधागोबिन्दबरुवा इत्यस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।

मुख्यमन्त्री स्वस्य सामाजिकमाध्यमसन्देशे राधागोबिन्दबरुवाम् दूरदर्शिनं नेतारम् अदम्यकर्मशीलं स्वप्नद्रष्टारं च वर्णयन् उक्तवान् यत् क्रीडाक्षेत्रे पत्रकारितायां सामाजिकजीवने राष्ट्रियचेतनायाः विकासे च तस्य योगदानम् अद्यापि समरूपेण प्रासङ्गिकम् अस्ति।

सः उक्तवान् यत् नेहरूस्टेडियम ट्रिब्यूनसमाचारसमूह इत्यादिभिः संस्थाभिः सम्बद्धस्य राधागोबिन्दबरुवस्य दूरदर्शिनी चिन्तनपद्धतिः कार्याणि च असमराज्याय नूतनां दिशं प्रदत्तवन्ति। मुख्यमन्त्री तस्य अमूल्यं योगदानं स्मरन् तस्मै विनम्रां श्रद्धाञ्जलिम् अर्पितवान्।

----------

Hindusthan Samachar / Dheeraj Maithani