छत्तीसगढ-विधानसभायाः वर्षाकालीनसत्रस्य अद्य तृतीयः दिवसः, अनेकेषु महत्त्वपूर्णेषु विषयेषु भविष्यति चर्चा
रायपुरम्, १५ जुलाईमासः (हि.स.)। छत्तीसगढ-विधानसभायाः वर्षाकालीन-सत्रस्य अद्य बुधवासरे तृतीयः दिवसः अस्ति। अद्य सदनस्य कार्यवाह्यां प्रश्नकाले विविधविभागसम्बद्धेषु महत्त्वपूर्णेषु प्रश्नेषु चर्चा भविष्यति। उपमुख्यमन्त्री विजयशर्मा, स्वास्थ्यमन्त्री
छत्तीसगढ़ विधानसभा


रायपुरम्, १५ जुलाईमासः (हि.स.)। छत्तीसगढ-विधानसभायाः वर्षाकालीन-सत्रस्य अद्य बुधवासरे तृतीयः दिवसः अस्ति। अद्य सदनस्य कार्यवाह्यां प्रश्नकाले विविधविभागसम्बद्धेषु महत्त्वपूर्णेषु प्रश्नेषु चर्चा भविष्यति। उपमुख्यमन्त्री विजयशर्मा, स्वास्थ्यमन्त्री श्यामबिहारी-जायसवालः तथा मन्त्री गुरु-खुशवन्त-साहेबः स्व-स्व-विभागसम्बद्धानां प्रश्नानां उत्तराणि दास्यन्ति।

मुख्यमन्त्री विष्णुदेव-सायः सदनस्य पटलस्य उपरि छत्तीसगढ-मिनरल-डेवलपमेण्ट-कार्पोरेशन-इत्यस्य तथा छत्तीसगढ-स्टेट-पावर-होल्डिङ्ग-निर्माण्याः वार्षिकप्रतिवेदनं प्रस्तोतुं शक्नोति। अपरं मन्त्री लखनलाल-देवाङ्गनः तथा स्वास्थ्यमन्त्री श्यामबिहारी-जायसवालः अपि स्वविभाग-सम्बद्धान् विविधान् अभिलेखान् सदनस्य पटलस्य उपरि स्थापयिष्यतः।

अद्य सदनस्य कार्यवाह्यां द्वयोः महत्त्वपूर्णयोः ध्यानाकर्षणप्रस्तावयोः चर्चा सम्भाव्यते। तयोः अन्तर्गतं इन्द्रावती-व्याघ्र-अभयारण्ये व्याघ्राणां कथित-शिकारस्य विषयः तथा शासकीय-मुद्रणालये मुद्रणकार्यसम्बद्धानां कथित-अनियमिततानां विषयः प्रमुखौ स्तः। विपक्षः एतेषु विषयेषु सर्वकारात् उत्तरं याचितुं शक्नोति।

एतदतिरिक्तं विधायकः विक्रम-उसेण्डी गैर-सर्वकारी-सदस्य-विधेयक-सङ्कल्प-सम्बद्ध-समित्याः प्रथमं प्रतिवेदनं सदने प्रस्तुतयिष्यति। विधायकाः कुँवरसिंह-निषादः, सावित्री-मण्डावी तथा राघवेन्द्रसिंहः विविधाः याचिकाः सदनस्य पुरतः स्थापयितुं शक्नुवन्ति। सहैव सर्वकारस्य पक्षतः सप्त शासकीय-विधेयकसम्बद्धकार्याणि अपि प्रस्तुतानि भविष्यन्ति। अद्य प्रश्नकालः, ध्यानाकर्षणप्रस्तावाः तथा विधायिक-कार्याणि इति विषयानधिकृत्य सदने व्यापकचर्चायाः सम्भावना वर्तते।

Hindusthan Samachar / Divya Ranjan