बिहारप्रदेशे २११ उपाधि-महाविद्यालयानां मुख्यमन्त्रिणा लोकार्पणम्, ३० नवम्बरमासतः विक्रमशिला-सेतौ परिचालनम् आरभ्यते - मुख्यमन्त्री
भागलपुरम्, १५ जुलाईमासः (हि.स.)। बिहारराज्ये उच्चशिक्षायाः तथा महिला-सशक्तीकरणस्य क्षेत्रे बुधवासरः ऐतिहासिकः अभवत्। भागलपुर-जनपदस्य गोराडीह-प्रखण्डान्तर्गतस्य काशील-ग्रामे आयोजिते समारोहे मुख्यमन्त्री न केवलं स्थानीय-नवनिर्मितस्य उपाधि-महाविद्यालय
आम जनता का अभिवादन करते मुख्यमंत्री


भागलपुरम्, १५ जुलाईमासः (हि.स.)। बिहारराज्ये उच्चशिक्षायाः तथा महिला-सशक्तीकरणस्य क्षेत्रे बुधवासरः ऐतिहासिकः अभवत्। भागलपुर-जनपदस्य गोराडीह-प्रखण्डान्तर्गतस्य काशील-ग्रामे आयोजिते समारोहे मुख्यमन्त्री न केवलं स्थानीय-नवनिर्मितस्य उपाधि-महाविद्यालयस्य उद्घाटनम् अकरोत्, अपितु भागलपुरस्य अस्याः पुण्यभूमेः एव आभासीय-माध्यमेन समग्र-बिहारस्य २११ उपाधि-महाविद्यालयानाम् महालोकार्पणं कृत्वा तान् राज्याय समर्पितवान्।

उच्चशिक्षायाः अस्य महालोकार्पणस्य सहैव मुख्यमन्त्री अर्धजनसंख्यायाः अर्थात् महिलानां छात्राणां च सुरक्षा-सुविधार्थम् अन्यमपि महान्तम् उपहारम् अयच्छत्। तेन षट् विशेष-‘पिङ्क-बसयानानि’ हरितध्वजं प्रदर्श्य प्रेषितानि। अपरञ्च बिहारस्य बहुप्रतीक्षितस्य विक्रमशिला-सेतोः विषये मुख्यमन्त्री सम्राट-चौधरी महत्त्वपूर्णां घोषणाम् अकरोत्। सः अवदत् यत् २०२६ तमस्य वर्षस्य नवम्बरमासस्य ३० दिनाङ्कात् विक्रमशिला-सेतौ सामान्यजनानां कृते परिचालनं पूर्णरूपेण प्रारभ्यते।

मुख्यमन्त्रिणा सह अस्मिन् कार्यक्रमे उपमुख्यमन्त्री विजयकुमार-चौधरी, उच्चशिक्षामन्त्री संजयसिंह-टाइगर, मुख्यसचिवः प्रत्यय-अमृतः, आरक्षक-महानिदेशकः विनय-कुमारः अपि पटनानगरात् आगतवन्तः। एतेभ्यः अतिरिक्तं स्थानीय-सांसदः अजयकुमार-मण्डलः, विधायकः शुभानन्द-मुकेशः च कार्यक्रमे उपस्थितौ आस्ताम्। काशील-ग्रामे नूतनस्य उपाधि-महाविद्यालयस्य आरम्भेण न केवलं अस्य प्रखण्डस्य, अपितु समीपवर्तिनां दशाधिक-ग्रामाणां छात्राणां वर्षाणां पुरातनं स्वप्नं साकारम् अभवत्।

स्थानीय-जनानां विद्यार्थिनां च मध्ये अस्मिन् विषये महान् हर्षोल्लासः वर्तते। ग्रामवासिनः वदन्ति यत् अधुना अस्माकं बालकानां, विशेषतः कन्यानां, उच्चशिक्षा-प्राप्त्यर्थं गृहं परित्यज्य दूरं गन्तुं आवश्यकता न भविष्यति। अनेन समयस्य धनस्य च संरक्षणं भविष्यति तथा क्षेत्रे शिक्षायाः स्तरः शीघ्रं उन्नतिं गमिष्यति। अस्य विशिष्ट-कार्यक्रमस्य संवेदनशीलतां भव्यतां च दृष्ट्वा भागलपुर-जनपद-प्रशासनेन अभेद्याः सुरक्षाव्यवस्थाः कृताः। कार्यक्रमस्थले बहुसंख्यकेन आरक्षक-बलेन दण्डाधिकारिभिश्च नियुक्तिः कृता आसीत्।

Hindusthan Samachar / Divya Ranjan