Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 जुलाईमासः (हि.स.)। काङ्ग्रेसदलम् केन्द्रसरकारम् आर्थिकनीतिषु विफलतायाः तथा निरन्तरवर्धमानमहाङ्गाईदरस्य कारणेन देशं भीषणार्थिकसङ्कटे निमज्जितवती इति आरोपम् अकरोत्। दलस्य कथनम् अस्ति यत् यदा अर्थव्यवस्थायाः सर्वे आधारभूतसूचकाङ्काः सङ्कटसूचनास्थितौ सन्ति तदा सरकारः जनतायाः ध्यानं अन्यत्र आकर्षयितुं तथ्यानि गोपयितुं च व्यग्रः अस्ति।
दलस्य महासचिवः सञ्चारविभागस्य प्रमुखः जयरामरमेशः बुधवासरे एक्समाध्यमे एकस्य समाचारपत्रे प्रकाशितस्य लेखस्य उल्लेखं कृत्वा अलिखत् यत् चतुश्चत्वारिंशन्मासेषु सर्वाधिका स्थूलमहाङ्गाई नवदशमलवाष्टसप्ततिशतांशरूपेण अभिलिखिता अस्ति। इन्धनविद्युत्क्षेत्रे सप्तविंशतिदशमलवचत्वारिशतांशपरिमिता वृद्धिः अभवत् तथा अस्मिन् वर्षे कृषिबीजवापनं गतत्रिवर्षाणां न्यूनतमस्तरम् अप्राप्नोत्। सामान्यजनाः महाङ्ग्याः बेरोजगारित्वस्य च भारेण पीडिताः सन्ति, अन्नदातारः तु सरकारस्य दोषपूर्णनीतिभिः प्रतिकूलवातावरणेन च द्विगुणिततापम् अनुभवन्ति।
रमेशः आरोपम् अकरोत् यत् महाङ्ग्याः वृद्ध्या उद्योगानाम् उत्पादनव्ययः अपि वर्धितः अस्ति, सरकारः तु तस्य नियन्त्रणस्य स्थाने भयावहान् आँकडान् गोपयितुं प्रयतते। तेन उक्तं यत् स्थूलमहाङ्ग्याः नवीनतमाः आँकडाः मोदीसरकारस्य आर्थिककुनीतीनां विफलतायाः च उदाहरणम् सन्ति।
तेन उक्तं यत् यदा देशस्य प्रत्येकः वर्गः त्राहि त्राहि इति स्थितौ अस्ति तदा सर्वकारस्य वास्तविकाः प्राथमिकताः काः सन्ति। केन्द्रसरकारेण द्वादशवर्षाणि शासनं कृत्वा अस्य आर्थिकविफलतायाः उत्तरं दातव्यम्।
---------------
Hindusthan Samachar / Dheeraj Maithani