Enter your Email Address to subscribe to our newsletters

दरभंगा, 15 जुलाईमासः (हि.स.)।
बिहारसर्वकारस्य उपक्रमेण आयोजितस्य उद्घाटनसहदीक्षारम्भकार्यक्रमस्य–२०२६ अन्तर्गतं बुधवासरे दरभङ्गाजनपदस्य तारडीहप्रखण्डे कुर्सोमछैतास्थिते प्लस्–टू पीएम श्री ए.सी. उच्चविद्यालयपरिसरे नवस्थापितस्य राजकीयस्नातकमहाविद्यालयस्य उद्घाटनं गरिमामयवातावरणे सम्पन्नम्।
राज्यस्तरीये मुख्यसमारोहे उपमुख्यमन्त्री सम्राटचौधरी भागलपुरनगरात् आभासीयमाध्यमेन राज्यस्य नवस्थापितानां राजकीयस्नातकमहाविद्यालयानाम् उद्घाटनं दीक्षारम्भं च अकरोत्। तस्य उद्घाटनसमारोहस्य सम्बोधनं च समारोहस्थले विशालपटले प्रत्यक्षप्रसारणरूपेण उपस्थितैः जनैः दृष्टं श्रुतं च।
स्थानीयसमारोहे अलीनगरविधानसभाक्षेत्रस्य विधायिका विश्वप्रसिद्धा मैथिलीलोकगायिका मैथिलीठाकुर मुख्यातिथिरूपेण उपस्थितासीत्। सा वैदिकविधिना दीपप्रज्वलनं कृत्वा उद्घाटनसहदीक्षारम्भकार्यक्रमस्य शुभारम्भम् अकरोत्। उपमुख्यमन्त्रिणः प्रत्यक्षसम्बोधनानन्तरं राष्ट्रगानेन कार्यक्रमः अग्रे प्रवृत्तः।
कार्यक्रमस्य सफलसम्पादनार्थं प्रातःकालादेव व्यापकव्यवस्थाः कृताः। जिलाप्रशासनस्य पक्षतः डीसीएलआर अविनाशकुमारः प्रखण्डशिक्षापदाधिकारी शैलेन्द्रकुमारश्च प्रातः प्रायेण दशवादनात् आरभ्य कार्यक्रमस्थले उपस्थितौ भूत्वा समग्रव्यवस्थानां निरीक्षणम् अकुरुताम्। विद्यालयपरिसरः सुशोभितरूपेण अलङ्कृतः आसीत् तथा अतिथीनां स्वागतार्थं विशेषव्यवस्था अपि कृता।
समारोहे विधायिका मैथिलीठाकुरः शिक्षाक्षेत्रे विशिष्टयोगदानाय कार्यक्रमस्य सफलसञ्चालनाय च विद्यालयस्य प्रधानाचार्यं डॉ. प्रभातरञ्जनकर्णम् असम्मानयत्। अपरतः डीसीएलआर अविनाशकुमारः कुर्सोमछैतापञ्चायतस्य पूर्वमुखियं उपेन्द्रझाम् सम्मान्य तस्य सामाजिकयोगदानस्य प्रशंसाम् अकरोत्।
अस्मिन्नवसरे उगनयादवः, पङ्कजझा, मुक्तिनारायणचौधरी, सत्येन्द्रचौधरी, डी.एन.ए. झा तथा बहवः जनप्रतिनिधयः, गणमान्यनागरिकाः, ग्रामवासिनः, छात्राः, छात्र्यः, अभिभावकाश्च उपस्थिताः आसन्। सम्पूर्णकार्यक्रमावधौ विद्यार्थिषु ग्रामवासिषु च महदुत्साहपूर्णं वातावरणम् आसीत्। स्थानीयजनैः एषा योजना तारडीहप्रखण्डस्य ऐतिहासिकलब्धिरिति कथयित्वा राज्यसर्वकारस्य अस्य निर्णयस्य हार्दिकं स्वागतं कृतम्।
राजकीयस्नातकमहाविद्यालयस्य प्रारम्भेण अधुना तारडीहप्रखण्डस्य समीपवर्तिक्षेत्राणां विद्यार्थिनः स्नातकशिक्षायै दूरस्थानि नगराणि प्रति गन्तुं न बाध्याः भविष्यन्ति। स्थानीयस्तरे एव उच्चशिक्षासुविधायाः उपलब्ध्या क्षेत्रस्य शैक्षिकविकासाय नूतना दिशा भविष्यतीति आशा व्यक्तिता।
---------------
Hindusthan Samachar / Dheeraj Maithani