Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 15 जुलाईमासः(हि.स.)।
जगद्गुरुः शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दसरस्वती बुधवासरे बलरामपुरजनपदस्य तुलसीपुरे आयोजिते सत्सङ्गकार्यक्रमे श्रद्धालून् गोरक्षागोसेवयोः सङ्कल्पं ग्राहयामास। तेन उक्तं यत् गौः केवलं पशुः नास्ति, अपितु अस्माकं माता अस्ति। तस्याः रक्षा प्रत्येकस्य सनातनधर्मानुयायिनः धर्मः कर्तव्यं च अस्ति।
मङ्गलवासरे रात्रौ श्रावस्तीतः तस्य वाहनसमूहः तुलसीपुरम् आगतः। तत्र रात्रिविश्रामानन्तरं बुधवासरे प्रातः तुलसीपुरस्य मिलनहालसभागारे सत्सङ्गकार्यक्रमः आयोजितः। बहुसंख्यकाः श्रद्धालवः तस्य दर्शनं कृत्वा आशीर्वादम् अलभन्त। अस्मिन् अवसरे शङ्कराचार्येण गोहत्याविषये चिन्ता व्यक्ता तथा समाजः गोरक्षणाय संगठितः भवेत् इति आह्वानं कृतम्। उपस्थितजनाः गोरक्षायाः सङ्कल्पम् अपि अगृह्णन्।
कार्यक्रमे सांसदः रामशिरोमणिवर्मा, विधायकः राकेशयादवः, मसूदखानः, रजनीशगुप्तः, आकाशजायसवालः तथा विविधसामाजिकसङ्गठनानां समाजवादीपक्षस्य च पदाधिकारी कार्यकर्तारः च उपस्थिताः आसन्।
तुलसीपुरस्य कार्यक्रमानन्तरं गाविष्ठिगोरक्षार्थधर्मयात्रा गैसडीक्षेत्रस्य मझौलीग्रामम् अगच्छत्, यत्र आयोजिते कार्यक्रमे सनातनसमाजस्य जनाः गोरक्षायै प्रेरिताः। ततः यात्रा गैसडीतः उतरौलां प्रति प्रस्थिता। उतरौलायां फक्कड़दासमन्दिरे भीमरावाम्बेडकरचतुष्पथस्य समीपे मध्याह्ने कार्यक्रमः प्रस्तावितः अस्ति। तदनन्तरं बलरामपुरविधानसभाक्षेत्रस्य श्रीदत्तगञ्जकान्दभारीमन्दिरपरिसरे अपि श्रद्धालुभिः सह संवादः सत्सङ्गकार्यक्रमः च भविष्यति।
धर्मयात्रायाः विविधस्थानेषु श्रद्धालुभिः पुष्पवृष्ट्या जयघोषैः च भव्यस्वागतं कृतम्। यात्राकाले बहुसंख्यकाः स्थानीयनागरिकाः, सन्तमहात्मानः, जनप्रतिनिधयः तथा समाजवादीपक्षस्य नेतारः कार्यकर्तारः च अपि सम्मिलिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani