गुप्त नवरात्र आषाढ़ शुक्ल पक्ष प्रतिपदा के साथ शुरू, मां विंध्यवासिनी दरबार में उमड़ने लगे साधक
- नौ दिनों तक चलेगा विशेष पूजन-अनुष्ठान, सुरक्षा और श्रद्धालुओं की सुविधा के किए गए व्यापक इंतजाम मीरजापुर, 15 जुलाई (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदे स्थिते विश्वविख्याते श्रीविन्ध्यवासिनीधाम्नि बुधवासरे आषाढशुक्लपक्षस्य प्रतिपदातिथेः आरभ्
मां विंध्यवासिनी।


- नौ दिनों तक चलेगा विशेष पूजन-अनुष्ठान, सुरक्षा और श्रद्धालुओं की सुविधा के किए गए व्यापक इंतजाम

मीरजापुर, 15 जुलाई (हि.स.)।

उत्तरप्रदेशस्य मीरजापुरजनपदे स्थिते विश्वविख्याते श्रीविन्ध्यवासिनीधाम्नि बुधवासरे आषाढशुक्लपक्षस्य प्रतिपदातिथेः आरभ्य गुप्तनवरात्रमहोत्सवस्य शुभारम्भः अभवत्। नवदिनात्मकस्य अस्य विशेषपर्वणः अवधौ श्रीविन्ध्यवासिन्याः सन्निधौ विशेषपूजनं हवनं जपः विविधानुष्ठानानि च विधास्यन्ते। गुप्तनवरात्रमहोत्सवं प्रति मन्दिरपरिसरे श्रद्धालूनां साधकानां सन्तानां च आगमनं प्रारब्धम्।

धार्मिकमान्यतानुसारं संवत्सरे चत्वारि नवरात्राणि भवन्ति। तेषु द्वे प्रत्यक्षनवरात्रे द्वे च गुप्तनवरात्रे स्तः। गुप्तनवरात्रं तान्त्रिकसाधनायै आध्यात्मिकोन्नत्यै च मातुः दशमहाविद्यानामुपासनायै अत्यन्तं महत्त्वपूर्णं मन्यते। देशस्य विभिन्नप्रदेशेभ्यः साधकाः विशेषानुष्ठानार्थं विन्ध्याचलं समागच्छन्ति। मन्दिरपरिसरेण सह गङ्गातटेष्वपि धार्मिकक्रियाकलापाः तीव्रतामुपगताः सन्ति।

गुप्तनवरात्रमहोत्सवं दृष्ट्वा विन्ध्यपण्डासमाजेन मन्दिरप्रशासनेन च श्रद्धालूनां सुविधार्थं व्यापकव्यवस्थाः कृताः। मन्दिरस्य सुरक्षां प्रति सुरक्षाप्रभारी उदयप्रतापः पुलिसकर्मिभ्यः आवश्यकनिर्देशान् प्रदत्तवान्। सम्पूर्णस्य परिसरस्य चतुर्विंशतिघण्टापर्यन्तं सीसीटीवीचित्रग्रहणयन्त्रैः निरीक्षणं भविष्यति। भीडनियन्त्रणाय यातायातव्यवस्थायै च विशेषप्रबन्धाः अपि कृताः सन्ति।

आचार्यः डा रामलालत्रिपाठी अवदत् यत् गुप्तनवरात्रे मातुः दशमहाविद्यानां विशेषाराधना क्रियते। जनश्रुतिरस्ति यत् एषु नवसु दिनेषु कृता साधना उपासना च शीघ्रमेव फलप्रदा भवति। प्रशासनस्य अनुमानेन गुप्तनवरात्रमहोत्सवस्य अवधौ लक्षाधिकाः श्रद्धालवः श्रीविन्ध्यवासिन्याः दर्शनपूजनार्थं धाम समागमिष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani