Enter your Email Address to subscribe to our newsletters

नवदेहली, १५ जुलाईमासः (हि.स.)। ईशा-ग्रामोत्सवः अधुना उत्तरभारतीय-ग्रामेष्वपि आयोजयिष्यते। दक्षिणभारतीय-ग्रामीण-प्रदेशेषु लोकप्रियः अयं क्रीडा-प्रतियोगितोत्सवः प्रथमवारं उत्तरप्रदेशे, हरियाणा-राज्ये, हिमाचलप्रदेशे तथा महाराष्ट्रेऽपि भविष्यति। दश-राज्यानां एकस्य केन्द्रशासित-प्रदेशस्य च सहभागितया अस्य अष्टादशः संस्करणम् अद्यावधि सर्वात् विशालतमं भविष्यति। एतै: सह ओडिशा, तमिळनाडु, केरळम्, कर्नाटकम्, तेलङ्गाणम्, आन्ध्रप्रदेशः तथा पुदुच्चेरी अपि अस्मिन् सहभागं करिष्यन्ति।
संविधान-क्लब-इत्यत्र आयोजितायां पत्रकार-वार्तायां ग्रामोत्सवस्य राष्ट्रीय-समन्वयकः स्वामी पुलकः अवदत् यत् अस्मिन् वर्षे प्रतियोगितायां प्रायः ४०,००० ग्रामेभ्यः ८०,००० जनाः ७,००० दलानां माध्यमेन सहभागं करिष्यन्ति। तेषु प्रायः १५,००० महिला-क्रीडकाः अपि सन्ति। प्रतियोगितायाः समारोपे विजेत्री वॉलीबॉल-दलम् तथा थ्रोबॉल-दलम् प्रत्येकं पञ्चलक्ष-रूप्यकाणां पुरस्कारं प्राप्स्यतः, उपविजेत्री-दले प्रत्येकं त्रिलक्ष-रूप्यकाणि प्रदास्यन्ते। तृतीय-चतुर्थ-स्थानयोः दलाभ्यां क्रमशः एकलक्ष-रूप्यकाणि तथा पञ्चाशत्सहस्र-रूप्यकाणि प्रदास्यन्ते। समूह-स्तरे विभागीय-स्तरे च नगद-पुरस्काराः अपि प्रदास्यन्ते, पैरालम्पिक-वर्गस्य कृते विशेष-पुरस्काराः अपि निर्धारिताः सन्ति। अस्मिन् प्रतियोगितोत्सवे एक-कोटि-रूप्यकात् अधिका पुरस्कार-राशिः निर्धारिता अस्ति, येन ग्रामीण-क्रीडकाणां योग्य-परिचयः सुलभः भविष्यति। प्रतिभागिनः पुरुषाणां वॉलीबॉल-प्रतियोगितायाः तथा महिलानां थ्रोबॉल-प्रतियोगितायाः कृते पञ्जीकरणं कर्तुं शक्नुवन्ति।
स्वामी पुलकः अवदत् यत् प्रतियोगिता बहुस्तरीय-प्रारूपेण आयोजयिष्यते, यस्मिन् समूह-स्तरीय-स्पर्धाः, विभागीय-चरणः तथा महान्तः समारोप: अन्तर्भविष्यन्ति। समूह-स्तरीय-स्पर्धाः जुलाईमासस्य द्वितीय-सप्ताहात् आरभन्ते, महान्तः समारोपः तु सेप्टेम्बरमासस्य ६ दिनाङ्के कोयम्बत्तूर-स्थिते ईशा-योग-केन्द्रे भविष्यति। उत्तरप्रदेशे समूह-स्तरीय-स्पर्धाः पञ्चस्थानेषु आयोजयिष्यन्ते। प्रथमः चरणः २५–२६ जुलाईमासयोः लखनऊ, वाराणसी, मुजफ्फरनगरे, मेरठे च भविष्यति। अनन्तरं १–२ अगस्तमासयोः गौतमबुद्धनगरे विभागीय-चरणस्य स्पर्धाः आयोजयिष्यन्ते। हरियाणा-राज्ये समूह-स्तरीय-स्पर्धाः २५–२६ जुलाईमासयोः पानीपत, करनाल, अम्बाला च आयोजयिष्यन्ते। अनन्तरं १–२ अगस्तमासयोः हिसारे कुरुक्षेत्रे च समूह-स्पर्धाः भविष्यन्ति। विभागीय-चरणः ९ अगस्तमासे करनाले भविष्यति, यस्मिन् विभागस्य सर्वेषां जनपदानां दलानि सहभागं करिष्यन्ति।
देवरायापुरम्-ग्रामस्य पीजी-पुदुर-दलस्य नायिका षट्त्रिंशद्वर्षीया थ्रोबॉल-क्रीडिका नन्दिनी दुरईसामी अवदत्— “ग्रामोत्सवात् पूर्वं ग्रामीण-महिलानां कृते क्रीडायाः अवसराः अत्यल्पाः आसन्। अधिकांशाः महिलाः गृहात् बहिरपि न निर्गच्छन्ति स्म। ईशा-ग्रामोत्सवस्य माध्यमेन अनेकाभ्यः महिलाभ्यः बहिर्निर्गत्य क्रीडितुं स्वप्रतिभां प्रदर्शयितुं च आत्मविश्वासः प्राप्तः। मम महत्तमा चुनौती प्रतिदिनं अभ्यासार्थं प्रायः १२० किलोमीटर-पर्यन्तं यात्रां कर्तुम् आसीत्। प्रशिक्षणकाले मम पतिः मम पुत्र्याः परिवारस्य च पालनं कृतवान्। ईशा-संस्थया परिवहनम्, भोजनम्, कन्दुकानि, जालम्, प्रशिक्षकः च प्रदत्ताः, येन महान् लाभः अभवत्।”
उल्लेखनीयं यत् ईशा-ग्रामोत्सवः भारत-सर्वकारस्य युवा-कार्य-क्रीडा-मन्त्रालयेन राष्ट्रीय-क्रीडा-प्रोत्साहन-सङ्घटनम् इति मान्यतां प्राप्तवान् अस्ति तथा च भारतस्य ग्रामीण-क्रीडा-प्रतिभानां कृते अद्वितीयं मञ्चं प्रददाति।
Hindusthan Samachar / Divya Ranjan