भगवान् जगन्नाथः, भ्राता बलभद्रः माता सुभद्रा चायच्छन् भक्तेभ्यो दर्शनं, जयघोषेण गूंजितो मंदिरपरिसरः
रांची, 15 जुलाईमासः (हि.स.)। रथयात्रा महोत्सवस्य पूर्वसन्ध्यायां बुधवासरे धुर्वास्थिते जगन्नाथमन्दिरे श्रद्धाभक्त्योः अद्भुतः संगमः दृष्टिगोचरः अभवत्। भगवान् जगन्नाथः ज्येष्ठभ्राता बलभद्रः भगिनी माता सुभद्रा च विशेषशृङ्गारेण सह श्रद्धालुभ्यः दर्
भगवान के दर्शन करते भक्त


रांची, 15 जुलाईमासः (हि.स.)।

रथयात्रा महोत्सवस्य पूर्वसन्ध्यायां बुधवासरे धुर्वास्थिते जगन्नाथमन्दिरे श्रद्धाभक्त्योः अद्भुतः संगमः दृष्टिगोचरः अभवत्। भगवान् जगन्नाथः ज्येष्ठभ्राता बलभद्रः भगिनी माता सुभद्रा च विशेषशृङ्गारेण सह श्रद्धालुभ्यः दर्शनम् अददुः। प्रातःकालात् एव मन्दिरपरिसरे श्रद्धालूनां दीर्घा पङ्क्तिः आसीत्। वर्षायाः मध्ये अपि श्रद्धालूनाम् आस्थायां कापि न्यूनता न दृश्यते स्म। बहवः जनाः स्वपरिवारैः सह मन्दिरम् आगत्य भगवानः दर्शनं कृत्वा सुखसमृद्धिसौभाग्यानां प्रार्थनाम् अकुर्वन्।

भगवतः दर्शनमात्रेण सम्पूर्णः मन्दिरपरिसरः जय जगन्नाथ इति घोषेण निनादितः। श्रद्धालवः अञ्जलिं बद्ध्वा भगवानः पुरतः प्रणम्य विधिवत् पूजार्चनां च अकुर्वन्।

मन्दिरे निनदद्भिः घण्टानां घडियालानां शङ्खध्वनेः धार्मिकभजनानां च ध्वनिभिः सम्पूर्णः वातावरणः भक्तिमयः अभवत्। वर्षाबिन्दूनां मध्ये श्रद्धालूनाम् अचलभक्तिः द्रष्टुं योग्याऽभवत्।

अनेकाः श्रद्धालवः वर्षया आर्द्राः सन्तः अपि पङ्क्तौ स्थित्वा भगवानः दर्शनसौभाग्यम् अलभन्त।

भगवतः जगन्नाथस्य भ्रातुः बलभद्रस्य भगिन्याः माता सुभद्रायाश्च विशेषशृङ्गारः श्रद्धालूनाम् आकर्षणस्य केन्द्रम् अभवत्।

दर्शनकाले मन्दिरपरिसरे सुरक्षा व्यवस्थापनयोः कृते स्वयंसेवकैः मन्दिरप्रबन्धनसमित्या च विशेषव्यवस्था कृता आसीत् येन श्रद्धालुभ्यः कापि असुविधा न भवेत्। श्रद्धालुषु परदिने गुरुवासरे भविष्यन्त्याः रथयात्रायाः विषये विशेषः उत्साहः दृष्टः।

अत्रैव मन्दिरसमित्या रथयात्रायाः सर्वाः सिद्धताः सम्पन्नाः। पारम्परिकधार्मिकानुष्ठानानन्तरं भगवान् जगन्नाथः बलभद्रः माता सुभद्रा च भव्यरथे समारोपिताः नगरभ्रमणाय प्रस्थास्यन्ति। अस्मिन् अवसरे सहस्रशः श्रद्धालवः रथस्य रज्जुं आकृष्य स्वजीवनं धन्यम् मन्यन्ते।

जगन्नाथपुरमन्दिरस्य मुख्यपूजारी रामेश्वर पाढ़ी इत्यनेन उक्तं यत् नेत्रदानोत्सवेन सह भगवानः जगन्नाथस्य भ्रातुः बलभद्रस्य भगिन्याः सुभद्रायाश्च त्रयाणां विग्रहाणाम् अनुष्ठानं सम्पन्नम्। सायङ्काले अष्टोत्तरशतदीपमहाआरात्रिकानन्तरं चतुर्दशदिनानन्तरं श्रद्धालूनां दर्शनार्थं मन्दिरस्य कपाटाः उद्घाटिताः। पुनः षोडशजुलैदिनाङ्के भगवानः जगन्नाथस्य रथः मौसीबाडी इति स्थलं प्रति प्रस्थास्यति यः पञ्चविंशतिजुलैदिनाङ्के पुनरागमिष्यति। प्रशासनस्य मन्दिरन्याससमितेः च ऐतिहासिकरथयात्रां प्रति सर्वाः सिद्धताः सम्पन्नाः सन्ति। सुरक्षाव्यवस्थां प्रति आवश्यकनिर्देशाः अपि प्रसारिताः।

षोडशजुलैदिनाङ्के भगवानः जगन्नाथस्य रथयात्रा भविष्यति। मन्दिरप्रबन्धनेन उक्तं यत् अपराह्णे द्विवादनपर्यन्तं श्रद्धालवः दर्शनं करिष्यन्ति। ततः परं दर्शनं निरुद्धं भविष्यति। अपराह्णे द्विवादनार्धात् त्रिवादनपर्यन्तं सुदर्शनचक्रम् श्रीगरुडः लक्ष्मीनरसिंहः बलभद्रस्वामी माता सुभद्रा भगवान् जगन्नाथश्च रथमारोहणाय प्रस्थास्यन्ति। ततः विग्रहाः रथे संस्थाप्य सम्यक् शृङ्गारः करिष्यते।

सायं चतुर्वादने रथे भक्ताः श्रीविष्णुसहस्रनामपूजां करिष्यन्ति। सायं चतुर्वादनार्धात् पञ्चवादनपर्यन्तं मन्दिरसहायकैः भगवानः चरणयोः पुष्पाणि समर्पयिष्यन्ते। सायं पञ्चवादने एकमिनिटे भगवानः जगन्नाथस्य रथः मौसीबाडी प्रति प्रस्थास्यति। सायं षड्वादने रथस्य मौसीबाडी आगमनस्य सम्भावना अस्ति। षड्वादनात् पञ्चमिनिटानन्तरं महिलाभ्यः रथे दर्शनस्य अवसरः प्रदास्यते। रात्रौ सप्तवादने दर्शनं निरुद्धं कृत्वा विग्रहाः मौसीबाडीमन्दिरे प्रतिष्ठापयिष्यन्ते। रात्रौ अष्टवादने अष्टोत्तरशतदीपमङ्गलारात्रिकानन्तरं शयनानुष्ठानं भविष्यति।

प्रशासनेन दिशानिर्देशाः प्रसारिताः

मन्दिरन्याससमित्या उक्तं यत् रथे केवलं पूजारिणः अधिकृतव्यक्तयश्च धौतवस्त्रं धारयन्तः तिष्ठन्ति। रथसञ्चालनकाले हटियास्थितः पुलिस उपाधीक्षकः दिशानिर्देशान् दास्यति। सः स्वकीयवर्द्यामेव भविष्यति। श्रीविष्णुसहस्रनामपूजाकाले रथसुरक्षासमितिः पुलिसकर्मिणश्च पूजास्थलस्य आवृत्तंकरिष्यन्ति। समित्या उक्तं यत् रथः शनैः शनैः मौसीबाडी प्रति गमिष्यति। प्रत्यागमनरथयात्रा पञ्चविंशतितमे जुलैमासीये दिनाङ्के आयोजिता भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani