Enter your Email Address to subscribe to our newsletters

खूंटी, 15 जुलाईमासः (हि.स.)। विश्वयुवकौशलदिवसस्य उपलक्ष्ये जनशिक्षणसंस्थया (जेएसएस) खूण्टीनगरस्य डाकबङ्गलामार्गस्थितप्रशिक्षणकेन्द्रे बुधवासरे विशेषकार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे शताधिकाः युवानः प्रशिक्षार्थिनश्च सहभागित्वम् अकुर्वन्। अस्मिन्नवसरे कौशलविकासस्य महत्त्वं प्रतिपाद्य युवभ्यः रोजगारस्वरोजगारसम्बद्धानां विविधप्रशिक्षणकार्यक्रमाणां सूचना प्रदत्ता।
कार्यक्रमस्य प्रारम्भः अतिथीनां स्वागतसमारम्भेण अभवत्। जनशिक्षणसंस्थायाः प्रभारिनिदेशकः शैलेशकुमारः मुख्यातिथिभ्यः स्मृतिचिह्नानि समर्प्य सम्मानम् अकरोत्। समारोहे जनशिक्षणसंस्थायाः प्रबन्धनमण्डलस्य सदस्या सरितागोस्वामी, सङ्कल्पसंस्थानस्य निदेशकः राजेशकुमारमहतो तथा एससीसी केन्द्रस्य निदेशिका ज्योतिसाङ् मुख्यातिथिरूपेण उपस्थिताः आसन्।
स्वसम्बोधने प्रभारिनिदेशकः शैलेशकुमारः अवदत् यत् वर्तमानकाले तकनीकीव्यावसायिककौशलयोः अधिगमः युवानां परमावश्यकता अभवत्। तेन उक्तं यत् कौशलविकासः आत्मनिर्भरभारतस्य परिकल्पनां साकारयितुं सशक्तमाध्यमम् अस्ति। अनेन युवभ्यः रोजगारस्वरोजगारयोः नूतनाः अवसराः सृज्यन्ते, ते च आर्थिकदृष्ट्या सबलाः भवन्ति। सः युवान् निरन्तरमध्ययनाय तथा कालानुरूपं स्वकौशलविकासनाय प्रेरितवान्।
अन्यैः अतिथिभिरपि युवानः कौशलाधारितशिक्षां स्वीकर्तुं, नूतनप्रौद्योगिकीभिः सह सम्बद्धान् भवितुं तथा समाजस्य राष्ट्रस्य च विकासे सक्रियभूमिकां निर्वोढुं प्रेरिताः। तैः उक्तं यत् परिवर्तमाने काले केवलं शैक्षणिकोपाधिः न, अपितु व्यावहारिककौशलमपि सफलतायाः प्रमुखा कुञ्जिका अस्ति।
अस्मिन्नवसरे जनशिक्षणसंस्थया सञ्चालितानां विविधव्यावसायिकप्रशिक्षणवर्गाणां नवसमूहानां सफलप्रशिक्षार्थिभ्यः प्रमाणपत्राणि प्रदाय सम्मानः कृतः। प्रशिक्षार्थिनः एतत् स्वकीयजीवनवृत्तेः दिशि महत्त्वपूर्णसिद्धिरिति स्वीकृत्य संस्थायै कृतज्ञतां प्रकटितवन्तः।
कार्यक्रमस्य सञ्चालनम् एपीओ कुमारशशिप्रकाशः अकरोत्। आयोजनस्य सफलतायां लेखाधिकारी निकुञ्जटोप्नो, एमआईएस राजीवठाकुरः, मोबिलाइजर् मरियाहोरो, अरविन्दरामः, कार्यालयसहायकः दसयनागः तथा प्रशिक्षिके गीताकुमारी, ज्योतिभेङ्गरा च संस्थायाः सर्वे कर्मकराश्च महत्त्वपूर्णं योगदानम् अददुः।--------------
Hindusthan Samachar / Dheeraj Maithani