Enter your Email Address to subscribe to our newsletters


जयपुरम्, 15 जुलाईमासः (हि.स.)।
भगवतः जगन्नाथस्य, बलभद्रस्य, सुभद्रायाः च भव्यरथयात्रा गुरुवासरे जयपुरनगरे श्रद्धया उल्लासेन च आयोजिता भविष्यति। गुप्तवृन्दावनधामस्य आयोजनत्वे सम्पन्नायाम् अस्याम् रथयात्रायां भगवान् विशेषदूरनियन्त्रितजलचालितरथे समारुह्य नगरभ्रमणं करिष्यति। आयोजकैः उक्तं यत् पुरीनगरस्य परम्परानुसारम् आयोज्यमानायां अस्यां यात्रायां नगरस्य सर्वभागेभ्यः लक्षशः श्रद्धालवः आगत्य भगवतः दर्शनं कृत्वा तस्य आशीर्वादं प्राप्स्यन्ति। सम्पूर्णमार्गे जय जगन्नाथ इति घोषेण गुलाबीनगरी भक्तिमयेन वातावरणेन परिपूर्णा भविष्यति।
गुप्तवृन्दावनधामस्य अध्यक्षः अमितासनदासः अवदत् यत् भगवते जगन्नाथाय विशेषः दूरनियन्त्रितजलचालितरथः निर्मितः अस्ति। अस्य प्रमुखविशेषता एषा अस्ति यत् मार्गे विद्युत्ताराणां सुरक्षितपरिगमनार्थं रथस्य उन्नतिः आवश्यकतानुसारं न्यूना अधिका वा कर्तुं शक्यते। रथः पुरीपरम्परानुसारं रक्तपीतवर्णीयविशेषवस्त्रैः अलङ्कृतः अस्ति।
रथयात्रा जयपुरहोटेलतः प्रारभ्य नगरस्य विविधमुख्यमार्गैः गत्वा श्रीशिवसत्सङ्गभवनं रामनिवासबागं च प्राप्स्यति, यत्र महाआरत्याः सह यात्रायाः समापनं भविष्यति। यात्राकाले भगवानः जगन्नाथस्य, बलभद्रस्य, सुभद्रायाः च दर्शनार्थं बहुसंख्यकाः श्रद्धालवः समागमिष्यन्ति इति सम्भावना अस्ति।
आयोजकानां कथनानुसारं परम्परायाः निर्वाहार्थं रथयात्रायाः एकदिनपूर्वं जयपुरनगरस्य विविधमन्दिरेषु विशेषमन्दिरमार्जनसेवा अर्थात् मन्दिरशोधनकार्यं अपि विधास्यते। अमितासनदासः अवदत् यत् भगवान् श्रीकृष्णः वृन्दावनवासिनां निष्कामप्रेम दृष्ट्वा अत्यन्तं भावविह्वलः अभवत्। तस्यैव दिव्यप्रेम्णः स्मरणार्थं प्रतिवर्षं रथयात्रायाः आयोजनं क्रियते। धार्मिकमान्यतानुसारं रथे विराजमानस्य भगवतः जगन्नाथस्य दर्शनम् आशीर्वादं च प्राप्य मनुष्यः पापेभ्यः विमुच्य भगवतः दिव्यप्रेम्णः अनुभवं करोति।
---------------
Hindusthan Samachar / Dheeraj Maithani