अखिलेश यादवस्य पीडीए केवलं सत्तां प्राप्तुम् उद्घोषवाक्यम् : केशव प्रसाद मौर्यः
लखनऊ, 15 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः अवदत् यत् समाजवादीपक्षस्य प्रमुखस्य अखिलेशयादवस्य पीडीए इति केवलं सत्ताप्राप्त्यर्थं कृतः कृत्रिमः घोषः अस्ति। वास्तविकः पीडीए तु भारतीयजनतापक्षः एव अस्ति यः सर्वेषां सहयो
केशव प्रसाद मौर्य


लखनऊ, 15 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः अवदत् यत् समाजवादीपक्षस्य प्रमुखस्य अखिलेशयादवस्य पीडीए इति केवलं सत्ताप्राप्त्यर्थं कृतः कृत्रिमः घोषः अस्ति। वास्तविकः पीडीए तु भारतीयजनतापक्षः एव अस्ति यः सर्वेषां सहयोगेन सर्वेषां विकासः इति सिद्धान्ते विश्वासं करोति।

उपमुख्यमन्त्री बुधवासरे स्वसामाजिकमाध्यमलेखायां लिखितवान् यत् समाजवादीपक्षः सम्पूर्णतया मोतियाबिन्दुरोगेण पीडितः जातः अस्ति। तस्मै प्रधानमन्त्री नरेन्द्रमोदी दृश्यन्ते न, यः केवलं विश्वस्य सर्वाधिकलोकप्रियः नेता एव नास्ति, अपितु देशस्य चत्वारिंशदधिकशतकोटिजनानां हृदयेषु अपि वसति। अस्य कारणं यत् जातिवादः, परिवारवादः, तुष्टीकरणनीतिः,वंचकता च एतेषां मिश्रणेन आवृतः तेषां कथितः समाजवादः समाजवादस्य नाम्ना लठैतवादिनां सेनाम् एव निर्मितवान् अस्ति।

--------------

Hindusthan Samachar / Dheeraj Maithani