Enter your Email Address to subscribe to our newsletters

जयपुरम्, 15 जुलाईमासः(हि.स.)।भगवतः श्रीजगन्नाथस्य अनसरकालस्य समापनानन्तरं बुधवासरे जयपुरनगरे प्रायः पञ्चशतवर्षप्राचीना परम्परा सम्यक् निर्वाहिता। भगवतः पूर्णस्वास्थ्यलाभाय पुनः कदापि रोगग्रस्तः न भवेत् इति कामनया श्रद्धालुभिः तस्य मौस्याः गुण्डिचाराज्ञ्याः गृहे शिवसंस्कारभवने विशेषमार्जनशोधनकार्यं कृतम्। धार्मिकमान्यतानुसारम् एतया सेवया भगवतः निवासस्थानं शुद्धं पवित्रं शीतलं च भवति।
उपलब्धसूचनानुसारं भगवान् श्रीजगन्नाथः पञ्चदशदिनात्मकम् अनसरकालं समाप्य बुधवासरे ज्येष्ठभ्रात्रा बलभद्रेण भगिन्या सुभद्रया च सह रथमारुह्य मौस्याः गुण्डिचाराज्ञ्याः गृहं सुन्दरावलनगरभ्रमणार्थं प्रस्थितः। ततः पूर्वम् अतिप्रातःकाले श्रद्धालुभिः मातृभगिन्याः गृहस्य पारम्परिकधावनमार्जनकार्यं सम्पन्नम्। गुरुवृन्दावनधामस्य आयोजनत्वे चान्दपोलस्थिते गुरुवृन्दावनधामे, दामोदरमन्दिरे तथा रामनिवासबागस्थिते गुण्डिचाराज्ञ्याः गृहे शिवसंस्कारभवने च प्रातः चतुर्वादनत्रिंशन्मिनिटसमयात् आरभ्य भक्तैः सम्मार्जनी, प्रक्षालनी, जलं च उपयुज्य भूमिः, भित्तयः, छदिः, कुञ्जवीथयः च सम्यक् शुद्धीकृताः। ततः अनन्तरं श्रीजगन्नाथसेवासमित्या जयपुरेण मन्दिरपरिसरः अलङ्कृतः तथा भगवतः स्वागतस्य सर्वाः सिद्धयः सम्पन्नाः।
गुरुवृन्दावनधामस्य अध्यक्षः अभिमन्युदासः अवदत् यत् एषा परम्परा प्रायः पञ्चशतवर्षप्राचीना अस्ति। मान्यता अस्ति यत् स्वयं श्रीचैतन्यमहाप्रभुणा प्रायः पञ्चशतवर्षपूर्वं पुरीनगरे स्वहस्तैः गुण्डिचामन्दिरस्य जलप्रक्षालनं कृतम्। तस्मात्कालात् प्रभृति भगवतः मौसीगृहं स्वच्छं शीतलं पवित्रं च कर्तुं एषा सेवा निरन्तरं प्रवर्तते। तेन उक्तं यत् एषा परम्परा केवलं बाह्यशौचपर्यन्ता नास्ति, अपितु अन्तःकरणशुद्धेः सेवाभावस्य च प्रतीकरूपेण अपि मन्यते।
धार्मिकमान्यतानुसारं भगवान् श्रीजगन्नाथः यदा वृन्दावनसुन्दरावलगमनभावेन भवति तदा तस्य नेत्रे विशाले भवतः। सः नवदिनपर्यन्तं मौस्याः गृहे विशेषस्नेहेन सेवया च सह विश्रामं करोति, यत्र तस्मै विविधप्रकाराणि व्यञ्जनानि नैवेद्यरूपेण समर्प्यन्ते। ततः अनन्तरं भगवान् पुनः श्रीमन्दिरं प्रत्यागच्छति।
---------------
Hindusthan Samachar / Dheeraj Maithani