Enter your Email Address to subscribe to our newsletters

इन्दौरजनपद:, १५ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अद्य बुधवासरे इन्दौर-प्रवासे भविष्यति। अस्मिन् अवसरे सः अत्र जनपद-चिकित्सालयस्य नवनिर्मितस्य त्रिशतं शय्यात्मक-भवनस्य लोकार्पणं करिष्यति। प्रायः त्र्यशीति-कोटि-रूप्यकाणां व्ययेन निर्मितम् एतत् चतुरट्टात्मकम् आधुनिकं भवनं जनपदस्य स्वास्थ्यसेवानां नूतनां सुदृढतां प्रदास्यति।
जनसम्पर्काधिकारी महिपाल-अजयः अवदत् यत् नूतनभवनस्य आरम्भेण रोगिभ्यः उत्तमाः चिकित्सासुविधाः उपलब्धाः भविष्यन्ति तथा चिकित्सालयस्य उपचारक्षमतायां उल्लेखनीया वृद्धिः भविष्यति। आधुनिक-चिकित्सासुविधाभिः सुसज्जिते अस्मिन् भवने विविधविभागानां कृते पर्याप्तः अवकाशः, रोगिणां कृते उत्तमाः विभागा: तथा आवश्यकाः स्वास्थ्याधारभूत-सुविधाः विकसिताः सन्ति।
अस्मिन् अवसरे जनप्रतिनिधयः, प्रशासनिक-अधिकारिणः तथा स्वास्थ्य-विभागस्य वरिष्ठ-अधिकारिणः उपस्थिताः भविष्यन्ति। जनपद-चिकित्सालयस्य अस्य नूतनभवनस्य लोकार्पणेन इन्दौरनगरं परितः स्थितानां क्षेत्राणां नागरिकाः अपि गुणात्मकानां सुलभानां च स्वास्थ्यसेवानां लाभं प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan