मध्यप्रदेशस्य मुख्यमंत्री अद्य इंदौरतः आबू धाबी अंताराष्ट्रियविमानस्थानकसेवानां करिष्यति शुभारंभम्
भोपालम्, 15 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः अद्य इन्दौरनगरे मध्यप्रदेशनागरिकविमानयननीतेः २०२५ अन्तर्गतं वित्तपोषितां प्रदेशस्य प्रथमां अन्ताराष्ट्रियविमानसेवां इन्दौरतः आबूधाबी नगरं प्रति शुभारम्भं करिष्यति। एषा विमानस
सीएम मोहन यादव


भोपालम्, 15 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः अद्य इन्दौरनगरे मध्यप्रदेशनागरिकविमानयननीतेः २०२५ अन्तर्गतं वित्तपोषितां प्रदेशस्य प्रथमां अन्ताराष्ट्रियविमानसेवां इन्दौरतः आबूधाबी नगरं प्रति शुभारम्भं करिष्यति। एषा विमानसेवा प्रदेशस्य आर्थिकराजधानीम् इन्दौरनगरं संयुक्तअरबअमीरातदेशस्य राजधानीना आबूधाबी नगरेण सह प्रत्यक्षतया संयोजयिष्यति।

जनसम्पर्काधिकारी जूहीश्रीवास्तवा अवदत् यत् टाटासमूहस्य विमानयनैककेन एयरइण्डियाएक्सप्रेस इति संस्थया सञ्चालिता एषा सेवा सप्ताहे चतुर्षु दिवसेषु सोमवासरे बुधवासरे शुक्रवासरे रविवासरे च उपलब्धा भविष्यति। तया उक्तं यत् अस्याः सेवायाः लाभः मालवानिमाडप्रदेशस्य विशालजनसमूहाय भविष्यति। सम्प्रति अस्मिन् मार्गे यात्रिकैः दिल्ली अथवा मुम्बई नगरस्य माध्यमेन यात्रां कर्तव्या भवति येन प्रायः सप्त अष्ट घण्टापर्यन्तः समयः व्यतीयते। नूतनविमानसेवायाः प्रारम्भेण एषा यात्रा प्रायः त्रिघण्टा पञ्चदश निमेषेषु सम्पूर्णा भविष्यति। अनेन व्यापारस्य निवेशस्य पर्यटनस्य औद्योगिकक्रियाकलापानां च संवर्धनं भविष्यति।

जनसम्पर्काधिकारिणः अनुसारेण राज्यसर्वकारः नागरिकविमानयननीतेः २०२५ माध्यमेन प्रदेशे वायुसम्पर्कस्य निरन्तरं विस्तारं करोति। अस्याः नीतेः अन्तर्गतं अधुना यावत् अष्टौ नूतनाः वायुमार्गाः स्वीकृताः सन्ति। तेषु चतुर्षु मार्गेषु सेवाः प्रारब्धाः सन्ति तथा अवशिष्टेषु मार्गेषु अपि शीघ्रमेव सेवाः प्रारभ्यन्ते। इन्दौर आबूधाबी विमानसेवायाः शुभारम्भेन भविष्ये नूतनानाम् अन्ताराष्ट्रियानां स्वदेशीविमानमार्गाणां च विस्तारस्य मार्गः अपि प्रशस्तः भविष्यति।

नागरिकविमानयननीत्या प्रदेशस्य विमानयनपरितन्त्रं सुदृढं भवति

जनसम्पर्काधिकारी अवदत् यत् प्रदेशस्य विमानयनपरितन्त्रस्य सुदृढीकरणस्य उद्देशेन प्रवर्तितायां मध्यप्रदेशनागरिकविमानयननीतौ २०२५ नवीनानां घरेलुवायुमार्गाणां विकासार्थं दशलक्षरूप्यकपर्यन्तं तथा अन्ताराष्ट्रियमार्गाणां कृते पञ्चदशलक्षरूप्यकपर्यन्तं वायबिलिटीगैपफण्डिङ्ग सहायता प्रदातुं व्यवस्था कृता अस्ति। राज्यस्य विमानपत्तनेषु रात्रौ स्थापितानां विमानानां कृते एविएशनटरबाइनफ्यूल इत्यस्मिन् मूल्यवर्धितकरस्य प्रभावीदरः एकप्रतिशतं निर्धारितः अस्ति।

सः अवदत् यत् नीतेः अन्तर्गतं मेन्टेनेन्स रिपेयर एण्ड ओवरहॉल परियोजनानां कृते चत्वारिंशत्प्रतिशतपर्यन्ता पूंजीगतसहायता तथा एयरकार्गो परियोजनानां कृते अपि पूंजीगतसहायता प्रदीयते। तथा च कौशलविकासस्य संवर्धनार्थं सिमुलेटर स्थापयद्भ्यः उड्डयनप्रशिक्षणसंस्थाभ्यः चत्वारिंशत्प्रतिशतपर्यन्ता पूंजीगतसहायता तथा असिमुलेटरप्रशिक्षणपाठ्यक्रमाणां कृते शुल्कस्य षष्टिप्रतिशतं अधिकतमम् एकलक्षरूप्यकपर्यन्तं वित्तीयसहायतायाः व्यवस्था अपि कृता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani