Enter your Email Address to subscribe to our newsletters

अशोकनगरम्, १५ जुलाईमासः (हि.स.)। केन्द्रीय-सञ्चार-पूर्वोत्तर-क्षेत्र-विकासमन्त्री ज्योतिरादित्य-सिन्धिया पूर्वनिर्धारित-कार्यक्रमानुसारम् अद्य बुधवासरे मध्यप्रदेशस्य चतुर्दिवसीय-प्रवासाय आगच्छति। सः अशोकनगर-जनपदे विविधेषु कार्यक्रमेषु सहभागी भविष्यति तथा विकासकार्याणां लोकार्पण-शिलान्यासादीनि करिष्यति।
जनपदप्रशासनेन प्रकाशित-कार्यक्रमानुसारम् अद्य सायं ७:१० वादने सिन्धिया भोपालतः प्रस्थास्यति तथा रात्रौ १०:०० वादने अशोकनगरस्य सर्किट-हाउस-इत्यत्र आगत्य रात्रिविश्रामं करिष्यति। अनन्तरं १६ जुलाईमासे प्रातः ९:४५ वादने तारवाले-बालाजी-मन्दिरं गत्वा दर्शनं करिष्यति। ततः प्रातः १०:१० वादनात् ११:२५ वादनपर्यन्तं जनसम्पर्क-कार्यालये जनताया: समस्या: श्रवणकार्यक्रमे जनानां निवेदनानि श्रोष्यति।
तदनन्तरम् आजीविका-अभियानस्य स्वसहायतासमूहस्य महिलाभिः सह संवादं करिष्यति, अपरेषु स्थानीयकार्यक्रमेषु अपि सहभागी भविष्यति। सायं ५:१५ वादने सेमरखेडी-ग्रामम् उपगम्य विद्युत्-उपकेन्द्रस्य लोकार्पणं करिष्यति। ततः रात्रौ ८:५५ वादनपर्यन्तं स्थानीयकार्यक्रमेषु सहभागं कृत्वा अशोकनगरस्य सर्किट-हाउस-इत्यत्र रात्रिविश्रामं करिष्यति।
१७ जुलाईमासे प्रातः १०:०० वादनात् ११:३० वादनपर्यन्तम् अशोकनगरस्य कलक्टरेट-इत्यत्र डीवीएमसी-समितेः सभां नेष्यति। ततः ११:३० वादनात् मध्यान्हे १२:०० वादनपर्यन्तं पत्रकारसम्मेलनं करिष्यति। अनन्तरं १२:३० वादने सेमरी-शाहबाद-ग्रामम् उपगम्य ग्रामचौपालस्य तथा शासकीयविद्यालयभवनस्य लोकार्पणं करिष्यति।
ततः परं अपराह्णे २:४० वादने अशोकनगर-रेलस्थानकस्य जीर्णोद्धार-उद्घाटन-कार्यक्रमे सहभागी भविष्यति। अनन्तरं तुलसी-सरोवरम् उपगम्य पीएम-स्वनिधि-योजनायाः लाभार्थिनां सम्मान-संवाद-कार्यक्रमे सहभागी भविष्यति। सहैव पारकना-सेहराई-प्रदेशयोः आयोजितेषु कार्यक्रमेषु विकासकार्याणां लोकार्पणं शिलान्यासं च करिष्यति। ततः किला-कोठीम् उपगम्य रात्रिविश्रामं करिष्यति।
१८ जुलाईमासे प्रातः ९:३० वादने जागेश्वरी-माता-मन्दिरं गत्वा दर्शनं करिष्यति। ततः पाठखेडा-ग्रामे विद्युत्-उपकेन्द्रस्य लोकार्पणं करिष्यति। मध्यान्हे १२:४५ वादने मढ़ी-महिदपुर-ग्रामे अपि विद्युत्-उपकेन्द्रस्य लोकार्पणं कृत्वा अन्येषु स्थानीयकार्यक्रमेषु सहभागी भविष्यति। ततः पश्चात् ग्वालियर-नगराय प्रस्थास्यति।
Hindusthan Samachar / Divya Ranjan