Enter your Email Address to subscribe to our newsletters

भोपालम्, 15 जुलाईमासः (हि.स.)।
मध्यप्रदेश बालाधिकारसंरक्षणायोगेन बालानां सुरक्षा तेषां अधिकारसंरक्षणस्य च विषये संवेदनशीलतां वर्धयितुं महत्त्वपूर्णा राज्यस्तरीया कार्यशाला आयोज्यते। एषा एकदिवसीया कार्यशाला आगामी सप्तदशजुलैदिनाङ्के भविष्यति, यस्याम् विषयविशेषज्ञाः सहभागिनः भविष्यन्ति।
जनसम्पर्काधिकारिणी बिन्दु सुनील बुधवासरे सूचना प्रदत्तवती यत् कार्यशालायाः मुख्यविषयः बालानां लैङ्गिकापराधेभ्यः संरक्षणम् अधिनियमः २०१२ (पॉक्सो अधिनियमः) तथा किशोरन्यायः (बालानां पालनपोषणसंरक्षणयोः अधिनियमः २०१५) इत्येतयोः प्रभाविक्रियान्वयने बालकल्याणसमितीनां भूमिका इति निर्धारितः अस्ति। कार्यक्रमस्य आयोजनं भोपालनगरे नेहरूनगरस्थिते धन्वन्तरिमार्गे एम.पी. काउन्सिल् ऑफ साइन्स् एण्ड् टेक्नोलॉजी विज्ञानभवनस्य सभागारे भविष्यति। कार्यशालायाः शुभारम्भः प्रातः दशवादनात् भविष्यति।
सा अवदत् यत् अस्य महत्त्वपूर्णस्य आयोजनस्य उद्देश्यं संकटग्रस्तानां निराश्रयाणां पीडितानां च बालानां वैधानिकसहाय्ये पालनपोषणे पुनर्वासे च बालकल्याणसमितीनां भूमिकां अधिकां सुदृढां संवेदनशीलां च कर्तुम् अस्ति। कार्यशालायाम् उभयोः अधिनियमयोः प्रभाविप्रायोगिकक्रियान्वयनस्य विषये विस्तृता चर्चा भविष्यति, येन बालेभ्यः त्वरितन्यायः उत्तमं वातावरणं च व्यवहारतः सुनिश्चितं भवेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani