उत्तर प्रदेशाय फार्मा इत्येतत् अथ मेडिकल डिवाइसकेंद्रं निर्मातुं सहमतिः
नव दिल्ली, 15 जुलाईमासः (हि.स.)। भारतीयभैषज्यसङ्ग्रहआयोगः तथा उत्तरप्रदेशप्रोत्साहितऔषधपरिषद् स्वास्थ्यक्षेत्रे गुणवत्तां नवोन्मेषं नियामकश्रेष्ठतां च प्रोत्साहयितुं समझौताज्ञापनपत्रे हस्ताक्षरं कृतवन्तौ। अस्याः रणनीतिकसाझेदार्याः उद्देश्यं औषधनि
उत्तर प्रदेश को फार्मा और मेडिकल डिवाइस हब बनाने के लिए आईपीसी और यूपीपीपीसी के बीच समझौता


नव दिल्ली, 15 जुलाईमासः (हि.स.)।

भारतीयभैषज्यसङ्ग्रहआयोगः तथा उत्तरप्रदेशप्रोत्साहितऔषधपरिषद् स्वास्थ्यक्षेत्रे गुणवत्तां नवोन्मेषं नियामकश्रेष्ठतां च प्रोत्साहयितुं समझौताज्ञापनपत्रे हस्ताक्षरं कृतवन्तौ। अस्याः रणनीतिकसाझेदार्याः उद्देश्यं औषधनिर्माणचिकित्सोपकरणक्षेत्रयोः गुणवत्तामानकान् सुदृढीकर्तुं, नियामकानुपालनं प्रोत्साहयितुं, नवोन्मेषं क्षमता निर्माणं च संवर्धयितुम् अस्ति।

समझौतस्य अन्तर्गतं उभे संस्थे संयुक्तरूपेण औषधनिर्माणचिकित्सोपकरणोद्योगयोः गुणवत्तामानकान् नियामकानुपालनं च सुदृढीकुरुतः। तेन सह भारतीयभैषज्यसङ्ग्रहस्य, भैषज्यसतर्कतायाः, चिकित्सोपकरणसतर्कतायाः च विषये जनजागरणम् अपि वर्धयिष्यते।

एतदतिरिक्तं संयुक्तप्रशिक्षणकार्यक्रमाः, कार्यशालाः, हितधारकाणां कृते जनजागरणाभियानानि च आयोजिष्यन्ते। उद्योगानां शिक्षणसंस्थानां च मध्ये सहयोगं वर्धयित्वा अनुसन्धानं नवोन्मेषं च प्रोत्साहयिष्यते। सूक्ष्मलघुमध्यमोद्यमेभ्यः प्रतिकूलघटनानां डिजिटलमाध्यमेन प्रतिवेदनाय आधुनिकसाधनानि प्रदास्यन्ते तथा गुणवत्ताश्वासनस्य विपण्यां उपलब्धानां उत्पादानां निरीक्षणस्य च माध्यमेन रोगिणां सुरक्षा अधिकं सुदृढा भविष्यति।

भारतीयभैषज्यसङ्ग्रहआयोगेन बुधवासरे उक्तं यत् एषा साझेदारी उच्चगुणवत्तायुक्तस्वास्थ्यसेवानां संवर्धनाय, नवोन्मेषस्य समर्थनाय, भारतस्य नियामकतन्त्रस्य सुदृढीकरणाय च महत्त्वपूर्णः उपायः अस्ति। अस्य उद्देश्यं उत्तरप्रदेशं औषधनिर्माणचिकित्सोपकरणस्वास्थ्यप्रौद्योगिकीक्षेत्रेषु अग्रणीकेन्द्ररूपेण विकसितुं सहयोगं प्रदातुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani