नेपाले प्रतिनिधि-सभायाः कार्यवाही द्विसप्ताह-पर्यन्तं स्थगिता
काठमाण्डूनगरम्, १५ जुलाईमासः (हि.स.)। नेपालस्य संसदः अधस्सदनस्य प्रतिनिधि-सभायाः कार्यवाही द्विसप्ताह-पर्यन्तं स्थगिता। प्रतिनिधि-सभा-कार्यव्यवस्था-परामर्श-समितेः सभायां एतस्मिन् विषये सहमतिः अभवत् यत् प्रतिनिधि-सभायाः अग्रिमा सभा अगस्तमासस्य प्रथ
नेपाल के संसद में विपक्षी दलों का विरोध


काठमाण्डूनगरम्, १५ जुलाईमासः (हि.स.)। नेपालस्य संसदः अधस्सदनस्य प्रतिनिधि-सभायाः कार्यवाही द्विसप्ताह-पर्यन्तं स्थगिता।

प्रतिनिधि-सभा-कार्यव्यवस्था-परामर्श-समितेः सभायां एतस्मिन् विषये सहमतिः अभवत् यत् प्रतिनिधि-सभायाः अग्रिमा सभा अगस्तमासस्य प्रथम-सप्ताहे आहूयते।

समितेः एकेन सदस्येन उक्तं यत् प्रतिनिधि-सभायाः अग्रिमा सभा अगस्तमासस्य प्रथमदिनाङ्के आह्वातुं विषये चर्चा अभवत्। तथापि अस्य औपचारिकी घोषणा पश्चात् क्रियते।

प्रतिनिधि-सभायाः परम्परानुसारं प्रत्येकम् अधिवेशनस्य समाप्तौ सभाध्यक्षः अग्रिम-सभायाः दिनाङ्कं समयं च घोषयति।

Hindusthan Samachar / Divya Ranjan