Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 जुलाईमासः (हि.स.)।गुजरातराज्यस्य मुख्यमन्त्रिणः भूपेन्द्रपटेलमहाभागस्य जन्मदिने प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओमबिरला, केन्द्रीयगृहसहकारितामन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः इत्यादयः देशस्य अनेके वरिष्ठनेतारः तस्मै शुभकामनाः प्रेषितवन्तः तथा तस्य आरोग्यपूर्णदीर्घायुषः सफलजीवनस्य च कामनाम् अकुर्वन्।
प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे एक्ससन्देशे शुभकामनाः प्रेषयन् अवदत् यत् मुख्यमन्त्री भूपेन्द्रपटेलः गुजरातराज्यं विकासस्य नूतनशिखराणि प्रति नेतुं जनतायाः अपेक्षाः पूरयितुं च अग्रणीभूमिकां निर्वहति। तेन तस्य दीर्घस्य आरोग्यपूर्णस्य जीवनस्य कामना कृता।
लोकसभाध्यक्षः ओमबिरला मुख्यमन्त्रिणः भूपेन्द्रपटेलस्य जन्मदिननिमित्तं शुभकामनाः प्रदाय ईश्वरात् तस्य उत्तमारोग्यस्य प्रसन्नस्य मङ्गलमयस्य जीवनस्य च प्रार्थनाम् अकरोत्।
केन्द्रीयगृहमन्त्री अमितशाहः अपि मुख्यमन्त्रिणः भूपेन्द्रपटेलस्य जन्मदिने शुभकामनाः प्रदाय अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शने सः गुजरातस्य विकासयात्रां निरन्तरम् अग्रे नेतुं महत्त्वपूर्णां भूमिकां निर्वहति। तेन भगवान् सोमनाथमहादेवात् मुख्यमन्त्रिणः उत्तमारोग्यस्य दीर्घायुषः च कामना कृता।
केन्द्रीयसडकमार्गपरिवहनमन्त्री नितिनगडकरी भूपेन्द्रभाईपटेलाय जन्मदिनशुभकामनाः प्रदाय ईश्वरात् तस्य उत्तमारोग्यस्य दीर्घायुषः मङ्गलमयजीवनस्य च प्रार्थनाम् अकरोत्।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् भूपेन्द्रपटेलः प्रगतिशीलविचारेण सह गुजरातस्य विकासाय नूतनां गतिं दातुं सुशासनस्य भावनां सुदृढां कर्तुं च निरन्तरं कार्यं करोति। तेन तस्य उत्तमारोग्यस्य दीर्घायुषः जनसेवायै समर्पितजीवनस्य च शुभकामनाः प्रदत्ताः।
केन्द्रीयमन्त्री गजेन्द्रसिंहशेखावतः अवदत् यत् राज्ये निरन्तरं प्रवर्तमानः विकासः जनकल्याणाय भवतः प्रतिबद्धता च प्रशंसनीया अस्ति। प्रभोः श्रीरामस्य कृपादृष्टिः भवति सदैव भवतः उपरि वर्ततामिति आशा व्यक्ता।
मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः भूपेन्द्रपटेलाय जन्मदिनशुभकामनाः प्रदाय अवदत् यत् द्वारकाधीशभगवतः कृपया भवतः उत्तमारोग्यं दीर्घायुः सुखमयं जीवनं च प्राप्यताम्। भवतः कुशलनेतृत्वे गुजरातराज्यं निरन्तरं प्रगतिम् जनकल्याणस्य नूतनकीर्तिमानान् च स्थापयतु इति प्रार्थना कृता।
मुख्यमन्त्रिणः भूपेन्द्रपटेलस्य जन्मदिने भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः, हरियाणाराज्यस्य मुख्यमन्त्री नयाबसिंहसैनी इत्यादयः देशस्य शीर्षनेतारः शुभकामनासन्देशान् प्रेषयन्तः तस्य नेतृत्वे विकासकार्येषु च स्वविश्वासं सम्मानभावं च प्रकटितवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani