१७ जुलाईमासे प्रधानमन्त्री हरियाणा-चण्डीगढ-पञ्जाब-राज्ययोः भ्रमणं करिष्यति, देशस्य प्रथमां हाइड्रोजन-ईन्धन-चालित-रेलयानसेवां हरित-ध्वजेन प्रारम्भं करिष्यति
नवदेहली, १५ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १७ जुलाईमासे हरियाणा, चण्डीगढ तथा पञ्जाब-राज्यानां भ्रमणं करिष्यति। अस्मिन् अवसरे सः देशस्य प्रथमां हाइड्रोजन-ईन्धन-चालित-रेलयान-सेवां हरित-ध्वजेन प्रारम्भं करिष्यति तथा एतेषु त्रिषु राज्येष
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदेहली, १५ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १७ जुलाईमासे हरियाणा, चण्डीगढ तथा पञ्जाब-राज्यानां भ्रमणं करिष्यति। अस्मिन् अवसरे सः देशस्य प्रथमां हाइड्रोजन-ईन्धन-चालित-रेलयान-सेवां हरित-ध्वजेन प्रारम्भं करिष्यति तथा एतेषु त्रिषु राज्येषु प्रायः २६,७७०-कोटि-रूप्यकाणां रेलमार्ग-राजमार्ग-स्वास्थ्य-शिक्षा-सम्बद्ध-विकास-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति।

प्रधानमन्त्रिणः कार्यालयस्य अनुसारं प्रधानमन्त्री प्रातः प्रायः एकादशवादने हरियाणायाः जीन्द-रेलस्थानकात् जीन्द-सोनीपत-मार्गे देशस्य प्रथमां हाइड्रोजन-रेलयान-सेवां प्रेषयिष्यति। स्वदेशीय-प्रविध्या अभिकल्पितं विकसितं च एतत् रेलयानं हाइड्रोजन-फ्यूल-सेल-प्रविध्या सञ्चलति, या हाइड्रोजनवायुं विद्युत्शक्तौ परिवर्त्य रेलयानं सञ्चालयति। अस्याः प्रक्रियायाः उपोत्पादरूपेण केवलं जलवाष्पः निर्गच्छति, अतः अस्य सञ्चालनकाले कार्बन-उत्सर्जनं सर्वथा न भवति।

दश-यानकोष्ठयुक्तम् एतत् रेलयानं ३२००-अश्वशक्ति-प्रणोदन-प्रणाल्या सञ्चलति, येन एतत् विश्वस्य दीर्घतमेषु शक्तिशालीषु च हाइड्रोजन-चालित-यात्री-रेलयानेषु अन्यतमं भविष्यति। अनेन भारतम् अपि परिचालन-स्तरे हाइड्रोजन-रेलयान-सेवां सञ्चालयतां चयनित-राष्ट्राणां मध्ये समावेशं प्राप्स्यति।

जीन्दस्य एकलव्य-क्रीडाङ्गणे प्रधानमन्त्री प्रायः १४,७००-कोटि-रूप्यकाणां विविध-विकास-परियोजनानां शिलान्यासं लोकार्पणं च करिष्यति। तासु १२,४७०-कोटि-रूप्यकाधिक-मूल्यानि राष्ट्रीय-राजमार्ग-परियोजनानि प्रमुखानि सन्ति। प्रधानमन्त्री १५७.९२-किलोमीटर-दीर्घं देहली-अमृतसर-कटरा-द्रुतमार्गस्य (पैकेज-१–५), ३३.८१-किलोमीटर-दीर्घम् अम्बाला-काला-अम्ब-राजमार्गम् तथा ४०.६०-किलोमीटर-दीर्घम् जीन्द-गोहाना-ग्रीनफील्ड-राजमार्गं राष्ट्राय समर्पयिष्यति। सहैव हांसी-बरवाला-ब्राउनफील्ड-राजमार्गस्य शिलान्यासमपि करिष्यति।

प्रधानमन्त्री कुरुक्षेत्रे उन्नत-रेलमार्गस्य उद्घाटनं करिष्यति, येन नगरे दीर्घकालात् विद्यमानेषु रेलपथ-सङ्क्रमण-द्वारेषु यातायात-समस्या निवारिता भविष्यति। सः भिवानीस्थितं पण्डित-नेकीराम-शर्मा-राजकीय-चिकित्सा-महाविद्यालयं, नारनौलस्थितं महर्षि-च्यवन-चिकित्सा-महाविद्यालयं राव-तुलाराम-चिकित्सालयं च राष्ट्राय समर्पयिष्यति। एतदतिरिक्तं कुरुक्षेत्रे सिक्ख-सङ्ग्रहालयस्य आधारशिलामपि स्थापयिष्यति।

ततः परं प्रधानमन्त्री चण्डीगढं गमिष्यति, यत्र सः ६,६००-कोटि-रूप्यकाधिक-मूल्यानां परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति। सः पीजीआईएमईआर-संस्थायां उन्नत-मातृ-शिशु-केन्द्रस्य तथा उन्नत-स्नायुविज्ञान-केन्द्रस्य उद्घाटनं करिष्यति, १५०-शय्यायुक्तस्य गम्भीर-चिकित्सा-खण्डस्य आधारशिलां च स्थापयिष्यति। एतदतिरिक्तं पञ्जाब-अभियान्त्रिकी-महाविद्यालयस्य, सर्वकारीय-महाविद्यालयस्य (सेक्टर-४६) छात्रावास-परियोजनानां तथा क्षेत्रस्य प्रमुख-राजमार्ग-अवसंरचना-परियोजनानामपि शुभारम्भं करिष्यति। तासु आईटी-सिटी-कुराली षट्पथि-ग्रीनफील्ड-राजमार्गः, जीरकपुर-ग्रीनफील्ड-बाइपासः तथा पीआर-७ स्पर-परिसरः प्रमुखाः सन्ति।

भ्रमणस्य अन्तिम-चरणे प्रधानमन्त्री पञ्जाबस्य जालन्धरं गमिष्यति, यत्र सः ५,४७०-कोटि-रूप्यकाधिक-मूल्यानां रेलमार्ग-राजमार्ग-परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति। सः अमृत-भारत-स्थानक-योजनायाः अन्तर्गतं देशस्य विंशति-राज्येषु पुनर्विकसितानां पञ्चसप्तति-रेलस्थानकानां लोकार्पणं करिष्यति। एतानि रेलस्थानकानि प्रायः १,५७०-कोटि-रूप्यक-व्ययेन ‘परम्परा अपि, विकासः अपि’ इति अवधारणानुसारं पुनर्विकसितानि सन्ति।

प्रधानमन्त्री नङ्गल-धरणी-तलवाडा-मुकेरियानगरे नूतन-रेलमार्ग-परियोजनायाः अन्तर्गतं प्रायः ८३०-कोटि-रूप्यक-व्ययेन निर्मितां दौलतपुर-चौक-कर्तोली-नूतन-रेलरेखामपि उद्घाटयिष्यति। अनेन पञ्जाब-हिमाचलप्रदेशयोः मध्ये रेल-सम्पर्कः सुदृढः भविष्यति, होशियारपुर-ऊना-जनपदयोश्च विशेषः लाभः भविष्यति। एषा नूतना रेलरेखा श्री-आनन्दपुर-साहिब तथा माता-चिन्तपूर्णी-मन्दिरम् इत्यादीनि महत्त्वपूर्ण-धार्मिक-स्थलानि रेलसम्पर्केण संयोजयिष्यति, यात्रिभ्यः च शीघ्रं सुरक्षितं विश्वसनीयं च परिवहन-साधनं प्रदास्यति।

प्रधानमन्त्री कर्तोली-अम्बाला-रेलसेवां तथा अमृतसर-वाराणसी-रेलसेवां हरित-ध्वजेन प्रारम्भं करिष्यति। सहैव देहली-अमृतसर-कटरा-द्रुतमार्गस्य पैकेज-६ उद्घाटयिष्यति तथा लुधियाना-दक्षिण-ग्रीनफील्ड-बाइपास इत्यस्य आधारशिलां स्थापयिष्यति।

Hindusthan Samachar / Divya Ranjan