प्रधानमंत्री मोदी राहुल गांधी च के. कामराजस्य 124तमायां जयंत्यामददात् श्रद्धांजलिम्
नव दिल्ली, 15 जुलाईमासः (हि.स.)।भारतरत्नसम्मानविभूषितस्य स्वतन्त्रतासेनानिनः तमिलनाडुराज्यस्य पूर्वमुख्यमन्त्रिणः के कामराजस्य चतुर्विंशत्यधिकशततमजन्मजयन्त्याः अवसरे प्रधानमन्त्री नरेन्द्रमोदी तथा लोकसभायाः प्रतिपक्षनेता राहुलगान्धी तस्मै श्रद्धाञ्
तमिलनाडु के पूर्व मुख्यमंत्री थिरु के. कामराज (फाइल फोटो)।


नव दिल्ली, 15 जुलाईमासः (हि.स.)।भारतरत्नसम्मानविभूषितस्य स्वतन्त्रतासेनानिनः तमिलनाडुराज्यस्य पूर्वमुख्यमन्त्रिणः के कामराजस्य चतुर्विंशत्यधिकशततमजन्मजयन्त्याः अवसरे प्रधानमन्त्री नरेन्द्रमोदी तथा लोकसभायाः प्रतिपक्षनेता राहुलगान्धी तस्मै श्रद्धाञ्जलिम् अर्पयित्वा राष्ट्रनिर्माणे तस्य ऐतिहासिकयोगदानम् अस्मारयताम्।

प्रधानमन्त्री नरेन्द्रमोदी अद्य के कामराजस्य जन्मजयन्त्यां तस्मै श्रद्धाञ्जलिम् अर्पितवान् तथा तम् भारतस्य स्वतन्त्रतासङ्ग्रामस्य दृढस्तम्भरूपेण राष्ट्रनिर्माणाय स्वजीवनं समर्पितवन्तम् असाधारणजननेतारं च स्मृतवान्। प्रधानमन्त्री अवदत् यत् शिक्षायाः, समावेशिविकासस्य, वञ्चितजनकल्याणस्य च प्रति तस्य अखंडनिष्ठा आगामिपीढीः निरन्तरं प्रेरयिष्यति।

लोकसभायाः प्रतिपक्षनेता अपि तस्मै विनम्रां श्रद्धाञ्जलिम् अर्पयन् तम् दूरदर्शिनं नेतारम् अवदत्। तेन उक्तं यत् कामराजः स्वजीवनं वञ्चितजनानाम् उत्थानाय तेषां सम्मानस्य अधिकाराणां संरक्षणाय च समर्पितवान्। सामाजिकन्यायस्य निःस्वार्थजनसेवायाः च तस्य परम्परा सर्वदा स्मरणीया भविष्यति।

उल्लेखनीयं यत् के कामराजस्य जन्म १९०३ तमवर्षस्य जुलाईमासस्य पञ्चदशदिने तमिलनाडुराज्यस्य विरुधुनगरे अभवत्। सः भारतीयस्वतन्त्रतासङ्ग्रामस्य प्रमुखनेतृषु अन्यतमः आसीत् तथा पश्चात् तमिलनाडुराज्यस्य मुख्यमन्त्री अभवत्। तस्य कार्यकाले शिक्षाक्षेत्रे व्यापकाः सुधाराः अभवन्, सहस्रशः नूतनविद्यालयाः उद्घाटिताः तथा निर्धनबालकान् विद्यालयेषु आनेतुं मध्याह्नभोजनयोजनादयः प्रोत्साहिताः। भारतीयराजनीतौ तस्य सङ्गठनकौशलस्य सरलजीवनस्य च कारणेन सः व्यापकं सम्मानम् अलभत। १९७६ तमवर्षे तस्मै मरणोपरान्तं देशस्य सर्वोच्चनागरिकसम्मानः भारतरत्नः प्रदत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani