विद्यया विवेकः, कौशलेन विकासः, उत्तमेन स्वास्थ्येन प्रत्येकं सङ्कल्पस्य सिद्धिः भवति - प्रधानमन्त्री मोदी
नवदिल्ली, १५ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः एक्स इति सामाजिकमाध्यमे लिखिते सुभाषिते विद्यायाः, कौशलस्य, उत्तमस्वास्थ्यस्य च महत्त्वम् अवोचत्। सः उक्तवान् यत् विद्यया विवेकः, कौशलेन विकासः, उत्तमेन स्वास्थ्येन च प्रत्येकस्
प्रधानमंत्री नरेन्द्र मोदी के एक्स हैंडल पर आज साझा किया गया सुभाषितम्।


नवदिल्ली, १५ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः एक्स इति सामाजिकमाध्यमे लिखिते सुभाषिते विद्यायाः, कौशलस्य, उत्तमस्वास्थ्यस्य च महत्त्वम् अवोचत्। सः उक्तवान् यत् विद्यया विवेकः, कौशलेन विकासः, उत्तमेन स्वास्थ्येन च प्रत्येकस्य सङ्कल्पस्य सिद्धिः भवति। अद्य अस्माकं युवानः एतान् गुणान् आत्मसात् कृत्वा देशस्य परिचयं अधिकं सुदृढं कुर्वन्ति।

प्रधानमन्त्री मोदी एक्स इति सामाजिकमाध्यमे एतत् सुभाषितं लिखितवान्—

धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्।लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा।।

एतत् सुभाषितं महाभारतस्य यक्ष-युधिष्ठिर-संवादात् गृहीतम् अस्ति।

अस्य सुभाषितस्य अर्थः अस्ति— सर्वेषु श्रेष्ठगुणेषु कौशलं श्रेष्ठतमम् अस्ति। सर्वेषु धनेषु विद्या श्रेष्ठतमं धनम् अस्ति। सर्वेषु लाभेषु आरोग्यं महान् लाभः अस्ति। सर्वेषु सुखेषु सन्तोषः श्रेष्ठतमं सुखम् अस्ति।

Hindusthan Samachar / Divya Ranjan