Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, १५ जुलाईमासः (हि.स.)। केन्द्रस्य मोदी-सर्वकारेण उत्तरप्रदेशस्य योगी-सर्वकारेण च कृषेः पशुपालनस्य च क्षेत्रे सञ्चाल्यमाना नन्दिनी-योजना ग्रामीणपरिवारान् स्वावलम्बनेन सह संयोजयितुं माध्यमं भवति। प्रयागराज-जनपदस्य उरुवा-विकासखण्डस्य परानीपुर-उपहार-ग्रामनिवासिनी शकुन्तलादेवी, देवेन्द्रसिंहस्य पत्नी, अस्याः योजनायाः लाभं प्राप्य दुग्धव्यवसायस्य आरम्भं कृतवती।
मुख्यपशुचिकित्साधिकारी प्रयागराजस्य डॉ.शिवनाथ-यादवः बुधवासरे अवदत् यत् नन्दिनी-योजनायाः आहत्य व्ययः द्विषष्टिः लक्षरूप्यकाणि अस्ति। वर्षे २०२५ तमे शकुन्तलादेव्याः अस्याः योजनायै चयनम् अभवत्। योजनायाः अन्तर्गतं तया प्रथमं धनागारात् ऋणं गृहीत्वा दुग्धव्यवसायस्य आवश्यकाम् आधारभूतसंरचनां निर्मिता। ततः परं पञ्चविंशति-दुग्धदायिनी-धेनूनां क्रयणार्थं योजनायाः अन्तर्गतं अनुदानं प्राप्तम्, येन तस्याः दुग्धव्यवसाय-परियोजना आरब्धा।
शकुन्तलादेव्याः पुत्रः देवेशः अवदत् यत् दुग्धव्यवसायस्य सञ्चालनम् आरब्धम् अस्ति। सः उक्तवान् यत् सम्प्रति नियमिताया आयस्य प्राप्तौ किञ्चित् कालः अपेक्षितः अस्ति, किन्तु समग्रः परिवारः परिश्रमेण समर्पणेन च अस्य व्यवसायस्य उन्नत्यर्थं प्रयतते। तेषां विश्वासः अस्ति यत् अग्रिमेषु कालेषु दुग्धव्यवसायात् उत्तमः लाभः भविष्यति तथा परिवारस्य आर्थिकस्थितिरेव अधिका सुदृढा भविष्यति।
ग्रामीणक्षेत्रेषु पशुपालनस्य प्रोत्साहनार्थं, रोजगारस्य नूतनावसराणां सृजनार्थं तथा कृषकाणाम् आयवृद्ध्यर्थं सञ्चाल्य-मानायाः नन्दिनी-योजनायाः लाभः तादृशपरिवारान् प्राप्नोति, ये आत्मनिर्भरत्वस्य दिशि पदानि स्थापयन्ति। प्रयागराजे शकुन्तलादेव्याः एष: प्रयत्न: अस्मिन् विषये प्रेरणादायकम् उदाहरण-रूपेण परिगण्यते।
Hindusthan Samachar / Divya Ranjan